________________
अपवर्गनिरूपणम् ।
किञ्चिद्वेति, तदुक्तम्
नान्यो ऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवो ऽपरः । ग्राह्यग्राहकवैधुर्यात्स्वयमेव प्रकाशते ॥ प्रमाणवा. अविभागो ऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । प्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ प्रमाणमा इत्यर्थरूपरहितं संविन्मात्रं किलेदमिति पश्यन् । परिहृत्य दुःखसंमृतिमभयं निर्वाणमाप्नोति ।।
विज्ञानवादिमतखण्डनम् । __ अत्राभिधीयते, न खल्वेक एव बोधात्मा ग्राह्यग्राहकोभयस्वभावो भवि. तमर्हति ग्राह्यग्राहकरूपयोरितरेतरविसदृशत्वेनैकत्र समावेशानुपपत्तेः, तथा हि नीलज्ञानं पीतज्ञानं शुक्लज्ञानमिति नीलपीताद्युपजनापायेऽप्यनुवर्तमानबोध. रूपता नीलादिविलक्षणान्वयव्यतिरेकाभ्यामवधार्यते ।
अपि च ज्ञानमहंकारास्पदमानन्दादिस्वभावं स्वकर्मणि च सव्यापारमिव भवद्भिरभ्युपगतमर्थस्तु नैवमात्मक इति कथमनयोरभेदः, यद्यपि ज्ञानमिदमयमर्थ इत्येवमाकारद्वयप्रतिभासो नास्ति तथा ऽप्ययमेको प्याकारः प्रतिभासमा. नः प्रकाश एव प्रतिभाति न प्रकाशक:, इदं नीलमिति ग्राहकाद्विच्छिन्न एव ग्राह्याकारोऽवभासते न त्वहं नीलमिति तदैक्येनावभासो ऽस्ति .
अपि च प्रकाश्यस्य नीलादेः प्रकाशकबोधाधीनं युक्तं नाम ग्रहणं बोधस्य तु तद्ग्राहकस्य तदा किं कृतं ग्रहणमिति चिन्त्यम् , न बोधान्तरनिबन्धनमन. वस्थाप्रसङ्गात् , नापि स्वप्रकाशं ज्ञानमहं नीलमित्यप्रतिभासात् ।
ननु नैव ग्राह्यग्राहकयोरन्यत्वमिति यो ऽयं ग्राह्यावभास इति भवता ऽभ्यु. पगतस्स एव ग्राहकावभासः , ग्राहकादन्यो हि ग्राह्यो जडात्मा भवेत् , ग्राह. कस्तु प्रकाशस्वभावो ग्राहकत्वादेव द्वयप्रतिभासश्च नास्तीत्युक्तम् , ततोन्यतर. स्य प्रकाशने जडप्रकाशयोः कतरस्यावभासितुं युक्तमिति चिन्तायां बलात्प्रका. श एवं प्रकाशते न जडः , निराकारश्च न प्रकाशः प्रकाशत इति तस्मिन्साकारे प्रकाशमाने चतो जडात्मा तदतिरिक्तो ऽर्थः स्यात् ।
तदिवमपेशलम् , उपायेनोपेयनिह्नवस्याशक्यकरणीयत्वात् , रूपस्य हि प्रकाशकं चक्षुर्न चक्षुरेव प्रकाशतामित्युक्त्वा रूपमपहोतुं शक्यते, तदिदमर्थस्य मूर्तिद्रवत्वकाठिन्यादिधर्मविशेषितात्मनस्तद्विपरीतस्वच्छस्वभावं ज्ञानं प्रकाशकं स्वभावत्वात् , चक्षुर्जन्यो हि प्रकाशो नाम ज्ञानमुच्यते नचागृहीतः प्रकाशः प्र. काश्यं प्रकाशयतीति, चक्षुर्जन्यः प्रकाशो ज्ञानमुच्यते स तु प्रकाशो रूपादिविषः यप्रकाशो न प्रकाशप्रकाशः , न हि चक्षुषः प्रकाशः प्रकाश्यते ऽपि तु रूपं प्र.. काश्यते , तत्र यपद्रमित्युच्यते स विषयो ग्राह्यः यत्तत्प्रकाशते इत्युच्यते स प्र.