________________
न्यायमायाम्
अथ स्वप्रकाशं तत्साकारं ज्ञानमिष्यते तेन ज्ञानान्तरापेक्षणान्नानवस्थेति, तर्हि स्वप्रकाशसाकारज्ञानव्यतिरिक्तार्थाकारानवभासात्तदेवास्तु कुतो द्वितीय इदानीमर्थाकारः, न चान्यथाऽनुपपत्त्यापि तत्कल्पना युक्तिमती, न हि राजशासनमिदमर्थेनाकारवता भवितव्यमिति, ज्ञानमेव नीलाद्याकारं यदि भवेत्को दोषः स्यादिति, नीलाद्याकारयोगादर्थस्स इति चेत्सं. ज्ञायां विवाद इत्युक्तम् , द्वितीयस्याभावात् , स्वच्छत्वाज्ज्ञानस्य कालुष्यमन्य. कृतमिति चेदविद्यावासनाकृतं तद् भविष्यति, स्वतःस्वच्छमपि ज्ञानमनाद्यविद्यावासनाविभवेन तत्तदनेकाकारकालुष्यरूषितवपुरिव प्रकाशते, ज्ञानवासनाभेद. संतानयोश्च बीजाङ्करवदनादित्वान्नास्य पर्यनुयोगस्यावसरः 'कुतोवासना प्रवृत्ता' इति, तस्मादनादिवासनावैचित्र्यरचितज्ञानवैचित्र्योपपत्तः कृतमनुमेयेनापि बाह्ये. नार्थेनेति ज्ञानस्यैवायमाकार इति सिद्धम् , अतश्च ज्ञानमर्थरहितमपि गन्धर्वनगरमायादिषु विस्पष्टमुपलभ्यते इत्यन्वयव्यतिरेकाभ्यामपि ज्ञानाकारत्वमव. गच्छामः, यदि च ज्ञानादर्थः पृथगवस्थितात्मा भवेज्ज्ञानान्तरेणाप्यसावुपलभ्येत न चैवमस्ति, तस्मादभेद एव ज्ञानार्थयोः, तथा ऽऽह-'सहोपलम्भनियमादभेदो नोलतद्धियोः'इति, न च ज्ञानार्थसंसर्गधर्म आकारो भवितुमर्हति यदि हि पृथगर्थमनाकारं पृथक् च ज्ञानमनाकारमुपलभ्य संसृष्टयोर्ज्ञानार्थयोराकारवत्तामुपल. भेमहि तत इममाकारं संसर्गधर्म प्रतिपद्यमहि, न त्वयमस्ति क्रमः अर्थरहितत्वे ऽपि च स्मरणस्वप्नादिज्ञानानामाकारवत्त्वमस्तोत्युक्तम् , अतः कथं संस- . गंधर्म आकारः।
अपि च नक्षत्रं तारका तिष्य इति कथमेकस्मिन्नर्थे परस्परविरु. द्धलिङ्गसमावेशः, परिव्राजककामुककौलेयकानां च कथमेक एव वनितारूपो ऽर्थः कुणप इति कामिनीति भक्ष्य इति च प्रतिभासत्रितयविषयतामनुभवेत् , दारा इति कथमेकैव स्त्रीव्यक्तिः पुंवचनबहुवचनविषयतां यायात् , षण्णग. रीति च कथं बहूनामन्यलिङ्गानामेकता स्त्रीलिङ्गता च भवेत् , इस्वदीर्घयोश्च कथं परस्परापेक्षग्रहणयोरर्थेनैकतर आकारः पारमार्थिकः स्यात् , ज्ञानानां तु भिनत्वाद्विचित्रवासनाभेदसहकारिरूपानुविधानेन जायमानानां न कश्चिदपि विरो. धः, तस्माज्ज्ञानमेवेदं सर्वत्र तथा तथा प्रतिभाति न तद्यतिरिक्तो ऽथों नाम क. श्चिदिति ज्ञान एव चैकत्रायं प्रमाणप्रमेयप्रमितिव्यवहारः परिसमाप्यते, तस्य हि विषयाकारता प्रमेयं ग्राहकाकारता प्रमाण स्वसंवित्तिश्च फलमिति, यथोक्तम्
यदाभासं प्रमेयं तत्प्रमाणफलते पुनः ।
ग्राहकाकारसंवित्योस्त्रयं नातः पृथक कृतम् ॥ इति ॥ तदिदमनायविद्यावासनाविलासविपर्यासिततवदर्शनतया ज्ञानमेव प्रायग्राहकसवित्तिभेदवदिव लक्ष्यते, अविद्याविरतौ तु स्वच्छमेव तत्सम्पद्यते न