________________
अपवर्गनिरूपणम् । शेषणा विशेष्यबुद्धिर्भवति, तस्मादपि पूर्वज्ञानग्रहणमिति सिद्धम् , ज्ञानं च प्राह्यमाणमाकाररहितं ग्रहीतुमशक्यमिति बलात्साकारमेव तद् प्रही. तव्यम् , साकारे च ज्ञाने गृहीते सति द्वितीयकारणाभावात्कुतो ज्ञानाति. रिक्तो बाह्योऽर्थः अतश्च साकारं ज्ञानमाकारवत्तामन्तरेणास्य प्रतिकर्मः व्यवस्थानुपपत्तेः, कल्पयित्वाऽपि बाह्यमर्थमवश्याकारवत्ता विज्ञानस्य विषयनियमसिद्धये वक्तव्या नीलज्ञानं हीदमनेकसन्निधाने समुपजा. यमानं कथमखिलतदितरपदार्थपरिहारेण केवलनीलानुलग्नतामवलम्बेत बोध. स्वभावतायाः सर्वान् प्रत्यविशिष्टत्वात् , प्रवृत्तिरपि प्रेक्षापूर्वकारिणां कथं तदेक. विषयेव स्यात् , न च नीलजनितत्वेनार्थत एष तदधिगतिनियम इति कथयितु. मुचितमालोकलोचनादिकारकान्तरजनितत्वस्यापि भावे तद्विषयत्वप्रसङ्गादतो नीलाकारतैव नीलविषयत्वव्यवस्थाहेतुर्न निमित्तान्तरम् , आह च
तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः ।
भाव्यन्तेनात्मना येन प्रतिकर्म विभज्यते ।। तत एवाकारग्रहणमेवातिशयमाश्रित्य तमबर्थसमर्थने सति साधकतम ज्ञानमेव पमाणं भविष्यत्यपरथा कारकातिशयदर्शनाभावे तत्तत्साधकतमत्वस्य दुरुपपादत्वात् , साकारज्ञानसाक्षी च लौकिको ऽपि दृश्यते व्यवहारः, एवं च वक्तारो भवन्ति लौकिकाः 'नीलो ऽर्थो ऽयं यतो ऽत्र तदाकारं ज्ञानमुत्पन्नमिति' तेन पतिकर्मनियमान्यथाऽनुपपत्तेरवश्यं साकारमेव ज्ञानम् ।
इत्थं सत्यपि बाह्यार्थे ज्ञानस्याकारकल्पना ।
भवेदेवेति तत्रैव सन्तोष्य स्थीयतां वरम् ॥ ये तु ज्ञानस्य स्वतः स्वच्छस्वभावत्वेन नीलपीताद्यवभासः परोपाधिरेव भवितुमर्हति स्फटिकस्येव लाक्षादिना ऽरुणिमाद्यनुवेधः, अतः पृथगननुभूय. मानोऽपि बायोऽर्थः साकारज्ञानावभासाऽन्यथाऽनुपपरयाऽनुमीयते, यथोक्तं'बायसिद्धिः स्याद् व्यतिरेकत' इति ।
तदिदमनुपपन्नम् , अन्वयानुपलब्धेः ।। - अर्थे ज्ञानं हि साकारं निराकारं तदत्यये ।
नित्यानुमेयबाह्यार्थवादी ज्ञानं क दृष्टवान् ॥ लाक्षास्फटिकादौ तु तथा युक्तं तदनुरक्तस्फटिकावलोकनाद्, इह पुन:
अर्थेन रज्यमानं हि निराकारं निसर्गतः।
ज्ञानं न खलु पश्यामो लाक्षया स्फटिकं यथा ॥ आकारद्वयप्रतीतिर्हि नास्तीत्युक्तमभ्युपगमे वा दुरुत्तरमनवस्थादूषणम् , अर्थाकारश्च प्रत्यक्षस्तत्कृतश्च ज्ञानाकारः प्रत्यक्ष इत्युच्यमानेऽर्थाकारस्ता. वत्साकारेण ज्ञानेन गृहीतः स इदानीं ज्ञानाकारोऽपि प्राद्यत्वात्साकारज्ञाना. न्तरग्राह्य एव स्यादित्यनिष्ठम् ।