SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ १०४ . न्यायमअाम् स्कथं विज्ञानस्यायमवभासः, अर्थाभावे तत्स्वरूपानुपपत्तेः, प्राह्यग्रहणं हि विज्ञानं नाम भवति नाग्रहणमिति । ___ उच्यते इदं तावत्परीक्ष्यतां यदेतस्प्रत्यक्षविज्ञानं नीलमिदं पीतमिदमुत्प. चते तत्र किमेक आकारः प्रकाशते उत द्वितीयमिति, यदि द्वितीयमवभाति अयमों नीलमिदं तज्ज्ञानमिति तकिमत्र विचार्यते जितं भवद्भिर्जितस्य यदापद्यते तदस्मासु विधीयताम् ,, अथक एवमाकारः प्रथते तयस्ति विचारावसरः, कस्योयमाकारः किमर्थस्य किं ज्ञानस्येति, स चैवं विचार्यमाण आकारो यद्यर्थस्येति स्थास्यति तद्भवन्तो जेष्यन्ति ज्ञानाकारपक्षे तु वयं जेष्याम इति, किं तावदत्र युक्तम् , ज्ञानस्यायमाकार इति, कुतः ? कल्पना भवति ह्यल्पीयसीति, अर्थाकारपक्षे ह्यर्थस्य ज डात्मनः प्रकाशागेगात्तस्य ग्राह्यत्वमम्यथा न स्यादिति ग्राहका. न्तरपरिकल्पनावश्यम्भाविनीति कल्पनाद्वैगुण्यम् । अथार्थ एव ग्राह्यात्मा यः स एव ग्राहक इति कथ्यते, स तर्हि प्रकाश एवे. ति संज्ञायामेष विवादः स्यात् , बाह्यान्तरकृतो विशेष इति चेत , अहो विशेषज्ञो देवानांप्रियः, ग्राहकाद्विच्छन्नता हि ग्राह्यस्य बाह्यता, न शरीरापेक्षिणी बाह्यता भवति, यदा च ग्राह्यादर्थादव्यतिरिक्त एव ग्राहक इष्यते, तदाऽस्य ततोऽविच्छिनतेत्यबाह्यत्वाज्ज्ञानमेव तदिति कथं न नाम्नि विवादः, उभयसिद्धत्वाज्ज्ञानस्य तस्यायमाकारो भवितुमर्हति ज्ञाने हि न के चन विवदन्ते अतस्तस्यैवायमाकार । इति युक्तमनेककल्पनातो ह्येकार्थकल्पना ज्यायसीति, अतश्च ज्ञानस्यायमाकारः। ज्ञानं हि प्रकाशकमप्रकाशस्यार्थस्य भवद्भिरभ्युपगम्यते ततश्चाथोत्प्रथमत. रस्य ग्रहणेन भवितव्यमगृहीतस्य दीपादेः प्रकाशस्य प्रकाशकत्वादर्शनात, उत्प. नेष्वपि च घटादिष्वर्थेषु प्रकाशवैकल्याद्वा प्रतिबन्धवैधुर्याद्वा भवत्यग्रहणं ज्ञानस्य, उत्पन्नस्य सतो न कश्चिद्ग्रहणे प्रतिबन्धको, न च प्रकाशान्तरापेक्षणं स्वत एव दीपवत्प्रकाशस्वभावात् , अतो यदैव तस्योत्पादस्तदैव ग्रहणमवश्यं भ. वेत् , न चेत्कालान्तरेऽपि न स्यात् किं हि तस्य कालान्तरे भविष्यति किंवा तदा नाभूयेन तत्कालान्तरे ग्रहोष्यते तदा च न गृह्यते इति, ज्ञानान्तरेण काला. न्तरे तद् ग्रहीष्यते इति चेत् , तदपि केन ग्रहीष्यते, अन्येनेति चेत्, तदप्यन्येनेति को ऽवधिः, श्रम इति चेत्कामं श्रान्तो विरंस्यति भवानर्थ तु न गृहीतवानेव, प्रकाशाग्रहणे तत्प्रकाश्यपरिच्छेदायोगादित्येवं न कदा चिदर्थग्रहणं स्यात् , तस्मादर्थग्रहणवादिनाऽपि पूर्व ज्ञानग्रहणमवश्याश्रयणीयम् , यथोक्तम्-'अप्र. त्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्धयती'ति । अतश्चैतदेवं ज्ञानपृष्ठेन चोत्तरकालमवमर्शदर्शनात् , ज्ञातो मयाऽयमर्थ इति हि प्रत्यवमृशन्तः प्रमातारः प्रथमं ज्ञानग्रहणमनुमोदन्ते, न ह्यगृहीतवि.
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy