________________
अपर्वनिरूपणम् ।
अथ 'विज्ञानमानन्दं ब्रह्मेत्यागमवचनमनुसरता विभुत्वमिव चेतनत्वमपि शब्दब्रह्मणो वयेते, तश्विरस्यैव शब्दब्रह्मेति नाम कृतं स्यात्, यदप्युच्यते--
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ इति । : तदपि ब्रह्मसुभिक्षमत्यन्तमलोकिकमेकतरस्य ब्रह्मणः काल्पनिकत्वादका. पनिकत्वे वा कथमद्वैतवादः, तस्मात्कृतमनेन शब्दब्रह्मणा स्वस्ति परस्मै ब्रह्मणे भूयात् , अविद्यामायाविनिर्मितविविधप्रथनकल्पश्च सत्ताद्वैतदूषणावस. र एव निवारित इति शब्दाद्वैतमपि तद्वदसमब्जसमसिद्धम् । ___एतेन परमात्मोपादानत्वमपि प्रत्युक्तम् , परमात्मनो निसर्गनिमलस्यैव. प्रायकलुषविकारकारणत्वानुपपत्तः, असत्यमेव विकारजातमविद्यातः पर. मात्मनि विभातीत्येतदपि दूषितमतः सर्वथा नाद्वैतपक्षः कश्चिदनवद्यः ।
अथ सर्वप्राणिनामेक एवात्मा नाना नात्मान इतीदृशमद्वैतमुच्यते, तदप्यप्रमाणकमेकस्मिन् सुखिनि न सर्वे सुखिनः एकस्मिन्दुःखिते वा न सर्वे दुःखि. ता इति व्यवस्थादर्शनात् , आत्मपरव्यवहारस्य च सर्वजनप्रतीतिसिद्धस्य दुरपह्नवत्वात् , अन्यदृष्टे च सुखसाधने वस्तुनि स्मरणानुसन्धानपूर्वकेच्छाद्वेषा. दिकार्यजातस्यान्यत्रानुपलम्भात् , एकस्मिंश्च वीतरागे मोक्षमासादितवति सं. सारिणामन्येषामानन्त्यदर्शनात् , अहम्प्रत्ययस्य प्रत्यगात्मवृत्तः परत्रासम्भवात् , जगद्वैचित्र्यस्य च पुरुषभेदनियतधर्माधर्मनिबन्धनस्यान्यथाऽनुपपत्तः, आत्मभेदस्य विस्पष्टसिद्धत्वात् , तप्तलोहस्फुलिङ्गकघटाकाशपादवेदनादिदृष्टा. न्तकदम्बस्य च निषेधः कृत एवेति एकात्मवादोऽपि न युक्तिमानित्यलं विस्तरेण।
शब्दस्यायं विवतेः कथमखिलमिति प्रस्फरत्तद्विविक्तस्वाकारोऽर्थप्रपञ्च: कथमिव विकृतिब्रह्मणो वेहशी स्यात् । तस्मान्नानात्मतत्त्वे परिचितसदसत्कर्मपाकानुसारप्रादुर्भूतेश्वरेच्छावशविचलदणुप्रोद्भवो भूतसर्गः ।।
विज्ञानाद्वैतमतम् । एवं स्थितेषु सवषु तूष्णीमद्वैतवादिषु । _ विज्ञानाद्वैतवादी तु पुनः प्रत्यवतिष्ठते ।। सत्यमनुपजनमनपायमेकमपरिमितमद्वयं ब्रह्म न युक्तमदिति युक्त एव त. दनभ्युपगमः, विज्ञानमेव तु क्षणिकमुपजनापायधर्मकमनादिसन्तानप्रबन्धप्रवृ. त्तमिदं तथा तथाऽवभातीति न ततोऽद्वितीयमर्थरूपं नाम किं चिदस्तीति पश्यामः।
मनु प्रत्यक्षादिना प्रमाणेन परस्परविसहशपदार्थरूपसंवेदनम्य दर्शितत्वा.