________________
न्यायमअर्याम्
अपि चाध्यासः क चित्सादृश्याद्भवति शुक्ताविव रजतस्य क्व चिदनुरागाद्भवति लाक्षाया इव स्फटिके शब्दार्थयोर्मू मूर्त्ततयातिदूरभिन्नस्वरूपयोः सादृश्यं तावदनुपन्नम् , अनुरागो ऽपि तत एव दुर्घटः पृथग्देशत्वाद्भिन्नेन्द्रियग्राह्यत्वाच्च। _ प्रतिबिम्बवर्णनमपि न सुन्दरम्, दूरदेशत्वेन शब्दार्थयोः प्राप्तेरभावादप्राप्तयोश्च प्रतिबिम्बोदये द्वारकोद्याननिवासिवासुदेवसुन्दरीवदनतामरसानि सागरतरङ्गपवनपरिचयचलदलकलतिकालाग्छितानि स्वच्छेषु ज्यात्स्नावदातद्युतिषु तुषारगिरिगह्वरगततुहिनशिलाकर्पूरदर्पणेषु प्रतिबिम्बतानि दृश्येरन् ।। ___ अथ सर्वगतत्वेन शब्दानामर्थदेशे प्राप्तिरभिधीयते, तर्हि सकलशब्दसार्थ. साधारण्यादत्यन्तमध्याससांकर्यमनवधार्यमाणविशेषनियमकारणमापद्यत इत्यलमतिप्रसङ्गेन, सर्वथा न सम्बद्धः शब्दाध्यासवादः ।
शब्दविवर्तवादखण्डनम् । विवर्तवादोपि न समज्जसः, तथा हि विवर्ते क्षीरमिव दधिरूपेण परिरणामित्वेन विकारितया वा क्षीरादेरिवानित्यप्रसङ्गात् , तथाभावे ऽपि च नाद्वैतसिद्धिर्दध्न इव क्षीरविकारस्य शब्दविकारस्यार्थस्य ततो ऽन्यत्वात, अन्यत्वाच्च बाधकारणकालुष्याद्यपप्लवविरहितकिसलयप्रतीतिसमर्पितभेदत्वात् । अथार्थप्रतिभासमसत्यमपीन्द्रजालवदुपदर्शयति शब्द इत्ययं विवार्थः, सो ऽपि न युक्तः, बाह्यस्य वस्तुनः पदाभिधेयस्य जातिव्यक्त्यादेवाक्यवाच्यस्यापि भावनादेः पूर्वप्रसाधितत्वात, अवयव्यादेश्चादूर एवाग्रे समर्थितत्वात, न चेन्द्रजालमायादिवदयथार्थवायामिह किमपि कारणमुत्पश्यामः । ___ अथार्थरूपेण शब्दः शुक्तिरिव रजता कारतया ऽवभासतइतीयं विवर्तवा. चोयुक्तिः इयमपि न साधीयसी, शुक्तिका हि रजतवत्प्रकाशत इति शक्यं वक्तुं शुक्राकारसारूप्येण तथा ऽवभाससम्भवात, इह तु शब्दार्थयोरत्यन्तविसह. शवपुषोराकारसमारोपकारणानवधारणात्कथमितररूपणेतरस्यावभासः, शुक्तिकारजतादिप्रतीतिषु च बाधकवशात्तथात्वमवगतमिह तु धर्म(म)जहत्सत्या. मसत्यां वा ऽर्थबुद्धिमादधाति शब्द इत्ययं विवर्तार्थः, एषो ऽपि सम्प्रत्येव प्र. तिक्षिप्तः शब्दानुवेधविरहिणीनां प्राचुर्येण प्रतिपत्तीनां प्रदर्शितत्वात् , न चा. न्यः कश्चिद्विपश्चिच्चेतसि विपरिवर्तते विवर्तप्रकार इत्यवाचकमुच्यते विव. तते ऽर्थभावेनेति ।
अथ शब्दब्रह्मैव सजति जगन्तीत्ययं विवर्तप्रकार उच्यते, सो ऽपि न सम्यग अचेतनत्वेन शब्दस्येश्वरस्येव स्रष्टत्वानुपपत्तेः, नच परमाणुवदस्य का. रणत्वम् , अवयवसमवायित्वेन पृथिव्यादेः कार्यस्य ग्रहणात् ।