________________
अपवर्गनिरूपणम् । गवि सास्नादिमद्रूपा गादिरूपा ऽभिधायके । निराकारोभयज्ञाने संवित्तिः परमार्थतः ।। इति ।
(श्लोक० प्र० सू० श्लोक० ११८५) एवमिन्द्रियजेष्विव शाब्देष्वपि प्रत्ययेषु न शब्दः स्वरूपमध्यस्यतीति युक्तम् , यदि च शब्दः स्वरूपेणार्थे प्रतिपादयति तदा ऽक्षशब्दस्यैक्याद् देवनविभीतकरथाक्षेषु तुल्या प्रतीतिः स्यान्न चाक्षशब्दा भिन्ना इति वक्तव्यं रूपप्र त्यभिज्ञाऽनपायात्तदुच्चारणे चार्थत्रय्यां संशयदर्शनात, भवतिशब्दयोश्च सुप्तिङन्तयोस्तुल्यरूपत्वादध्यासपक्षे तुल्यार्थप्रतीतिहेतुत्वं प्राप्नोति, तथा च सिद्धसाध्यबुद्धिः संवेद्यमाना ऽपि निन्हूयेत, एवमगादित्यश्व इत्यजापय इत्या. दावपि द्रष्टव्यम्।
शब्दस्य सिद्धरूपत्वात्तदध्यासेनार्थबुद्धाविष्यमाणायां 'यजेत दद्याजहयादि'. त्यादौ न क चित्साध्यबुद्धिर्भवेत्सिद्धाध्यासेन साध्यबुद्धेरननुरूपत्वात् , जातिगुणक्रियाशब्दाश्च 'गौः शुक्लो गच्छती'त्यादयः केन कारणेन नियतमध्यासमनुरुन्धत इति नावगच्छामः, शब्दस्यार्थानपेक्षनिसर्गशुद्धवश्वरूप्यकल्पनाबी. जाभावात् , प्रतिनियतशब्दवृत्तेश्च कस्य चिल्लक्ष्मणो ऽनुपलक्षणात् , वृक्षपक्षशब्दयोश्च घटपटशब्दयोरिव स्वरूपभेदाविशेषादानपेक्षित्वाच विशेषणविशेष्यभावसामानाधिकरण्ये शब्दाध्यासवादिनो न भवेताम्, न टेकत्र वस्तुनि वा. च्ये क चिदनयाः शब्दयोवृत्तिः।
एतेन नीलोत्पलमपि प्रत्याख्यातम् , तत्रैतत्स्यात्-न नीलगुणविशेषित. मुत्पलं नाम कि चिदस्ति विशेष्यम् अपि तु तन्निरस्तावयवार्थमश्वकर्णादिवदर्थान्तरमेवेदं व्युत्पत्तिप्रकारमात्रं तु विशेषणविशेष्यभाववर्णनमिति, तदेतदसमीचीनम्-अनुभूयमानावयवार्थप्रतीतिनिह्नवनिमित्तानुपलम्भात् , अश्वकर्णादौ हि युक्तमर्थान्तरत्वं तत्र हि नाश्वार्थो न कर्णार्थः, निरवयवाक्यार्थवादश्च प्रागेव विस्तरेण निरस्त इत्यलं पुनरुक्तालापेन ।
अथ शब्दाद्वयाभ्यासनिबन्धनमेव सामानाधिकरण्यं वृक्षः वृक्ष इत्युच्यते, तदपि न चारु, वृक्षस्तरुरिति पर्याययोरपि तत्सम्भवे सति सामानाधिकरण्यप्रसङ्गात् । ___ अपि च पर्यायेषु 'हस्तःकरः पाणिरि'त्यादिषु शब्दरूपभेदाभ्यासपक्षे ऽर्थबुद्धिभेदः प्राप्नोति न चासावस्तीति नाध्यासः ।
किं च सम्बन्धग्रहणनिरपेक्षो ऽपि शब्दः स्वसामर्थ्यमनुरुध्यमानः स्वाध्यासेन बुद्धिं विद्ध्यात्. तदपेक्षायां कस्य केन संबन्ध इति न बुध्यामहे, शब्दाद. र्थस्य पृथग्व्यवस्थितात्मनस्तन्मते दुर्लभस्वात् , शब्दव्यतिरिक्तार्थोपगमे वा किमनेन शब्दाध्याससमर्थनाडम्बरण विरम्यतामतो मृगतृष्णानुसरणरणरणकात् ।