________________
१००
न्यायमअयाम् प्तोऽसि तदधुना यदुपारूढः शब्दः प्रकाशते तस्य पृथक् प्रदर्शयितुमनुभवितुं चाशक्यत्वाच्छन्द एव तथा प्रतिभातीति शब्दविवर्त एवायमों नान्यः कश्चिदिति प्रतिपत्तमर्हसि, यथा चायमिन्द्रियजेषु प्रतिभासेषु प्रक्रमस्तथा शाब्देष्व.
पि प्रत्ययेषु शब्दविशिष्टो वार्थः प्रतिभाति शब्दो वार्थारूढः, शब्द एवार्थरूपेण ५ विवर्तत इति गृह्यताम् , अतश्च शब्दब्रह्मदमेकमविद्योपाधिदर्शितविचित्रभेदम
विद्योपरमे यथावस्थितरूपं प्रकाशत इति युक्तम् । __-_तत्राभिधीयते-न खलु प्रकारत्रयम्पीदमुपपद्यते पदपदार्थसम्बन्धव्युत्प. त्तिविरहिणामनवाप्तशब्दयोजनावैरूप्यसारूप्यमात्रप्रतिशुद्धवस्तुग्रहणप्रवणेन्द्रिय
जप्रत्ययदर्शनात् , वृद्धव्यवहारपरिचयाधिगतशब्दार्थसम्बन्धसंस्थाधियामपि १. शब्दस्मरणसंस्कारप्रबोधहेतुभूतप्रथमोद्भूतविशुद्धवस्त्ववभासस्यापरिहार्यत्वात्, यत्र हि वस्तुनि निविशमानः शब्दः शब्दविद्वयवहारेषु यो ऽवधुतस्तदर्शने त.
संस्कारप्रबोधात्स्मृतिपथमेति नान्यथेति, सामान्यशब्देष्वपि यत्तत्सत्किमित्यादिषु विशेषशब्देष्विव सैव वार्ता तेषामपि व्युत्पत्त्युपयोगविरहे विविधवनवि. हारिविहङ्गकूजितादिवार्थप्रतीतिहेतुत्वानुपपपत्तेः, सविकल्पकदशायामपि न वा. चकविशिष्टं वाच्यं मेचकगुणखचितमिव कुवलयमवलोकयति इति विस्तरतः प्रत्यक्षलक्षणे परीक्षितमेतत् । आह च
म शब्दाभेदरूपेण बुद्धिरथेषु जायते । प्राक् शब्दाधादृशी बुद्धिः शब्दादपि हि तादृशी।। इति ।
(श्लोक० वा० प्र० १२) . संज्ञित्वमात्रमधिकमधुना ध्वनिसन्निधाने बुद्धिमधिरोहति न तद्विशिष्टोऽर्थः, २० तस्य हि श्रोत्रेण नेत्रणोभाभ्यांन केवलेन मनसा वा ग्रहणमुपपद्यते ऽतिप्रसङ्गात्।
___ शब्दाध्यासवादखण्डनम् । शब्दो ह्यनेकधर्मके धर्मिण्येकतरधर्मावधारणाभ्युपायो भवति न तत्रास्मानमारोपयति न हि दीपेन्द्रियप्रभृतयः प्रतीत्युपायास्तदुपेये रूपादावात्मानमारोपयन्त्यत एव तदुपायत्वभ्रमकृतस्तदभेदवादो ऽपि न युक्तः ।
न ह्यपायादभिन्नत्वं तदुपेयस्य युज्यते ।।
रूपस्य न ह्यभिन्नत्वं दीपाद्वा चक्षुषो ऽपि वा।। अपि च-यदि शब्दादभिन्नो ऽर्थः प्रतिभात्येव को ऽध्यासार्थः अध्यासभ्र. मस्त वैयाकरणानामेकाकारनिर्देशदोषनिर्मितो यथा गौरित्येष हि निर्देशो वा. च्यतबुद्धिवाचिनाम्, कस्त्वया दृष्टो ऽर्थ इति पृष्टो गौरिति, कीदृशं ते ज्ञान. मुत्पन्नं गौरिति, कीदृशं शब्दं प्रयुक्तवानसि गोरिति, तत एषा भ्रान्तिः, वस्तु. तस्तु विविक्ता एवैते शब्दज्ञानार्थाः, तदुक्तम्