________________
अपवर्गनिरूपणम् । मन्त्रार्थवादोत्थविकल्पमूलमद्वैतवाद परिहृत्य तस्मात् । उपेयतामेष पदार्थभेदः प्रत्यक्षलिङ्गागमगम्यमानः ॥
__ शब्दाद्वैतवादिवैयाकरणम वखण्डनम् । एतेन शब्दाद्वैतवादो ऽपि प्रत्युक्तः ।
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्तते ऽर्थभावेनं प्रक्रिया जगतो यतः ॥ इति ।
_ (वाक्य० का० १ श्लो०१), उच्यते-तत्रानादिनिधनपदनिवेदिता पूर्वापरान्तरहिता वस्तुसत्ता नित्यत्वं ब्रह्मपदप्रतिपादितं च व्यापित्वमित्युभयमपि शब्दस्य प्रागेव निरम्तम् , निरवयषश्च स्फोटात्मा शब्दः प्रतिक्षिप्त एव, यत्त नित्यं वा किंचिदुच्यते तच्छब्द. तत्त्वमित्यत्र का युक्तिः, आह शब्दोपग्राह्यतया च शब्दतत्त्वम् . तथा हि सवैः प्रत्यय उपजायमानो नानुल्लिखितशब्दक उपजायते तदुल्लेखविरहिणे ऽनासा दितप्रकाशस्वभावस्य प्रत्ययस्यानुत्पन्ननिविशेषत्वात् , इदमीदृशमित्यादिपरामशमुषितवपुषि वेदने वेदनात्मकतैव न भवेत् , ये ऽपि वृद्धव्यवहारोपयोगिवैधु. निवाप्तशब्दार्थसम्बन्धविशेषव्युत्पत्तयो बालदारकप्रायाः प्रमातारस्तेपि नूनं यत्तत्सत्किमित्यादि शब्दजातमनुल्लिखन्तो न प्रतियन्ति किमपि प्रमेयमतः श. ब्दोन्मेषप्रभावप्राप्तप्रकाशस्वभावत्वात्सर्गप्रत्ययानाम् ।।
न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्व शब्देन गम्यते ॥ इति ।
(वाक्य० ब्र० १२ श्लोक ११४) एवमनभ्युपगमे तु सम्विदः प्रकाशशून्यतया ऽनधिगतविषयः सर्व एवा. न्धमूकप्रायो लोकः स्यात् । आह च
वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती। न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ।। इति ।
. (वा० ब० श्लोक १२५), अतः क्रमेण तावदेवं बोध्यसे शब्दाख्यविशेषणानुवेधविशेषाननुभवात्सर्व निर्विकल्पकमिन्द्रियजमविकल्पकंवा ज्ञानं शब्दविशिष्टमर्थमवद्योतयति गौः शु. क्लो गच्छतीति जातिगुणक्रियावच्छिन्नविषयावभासिनि प्रत्यये शब्दविशिष्ट ए. वार्थः प्रस्फुरतीति बुद्धयस्व, एवं चेद्बोधुमवतीर्णो ऽसि शब्दाख्यविशेषणानुर. क्तस्य तस्य विशेष्यस्य स्वरूपं पृष्टः शब्देनैव दर्शयसि शब्दापरित्यागलब्धप्रका. शस्वरूपयैव वा ऽनुभूत्यानुभवसीति सो ऽपि विशेष्यः शब्दरूप एवेति जानीहि, तदेवं शब्द एवार्थोपारूढः पतिभातीति व्यवतिष्ठते, इत्थमियन्तमध्वानं चेत्पा.