SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ १८ न्यायमअयाम् विभागकल्पनापि निरवकाशैव । यच्चेतरेतराश्रयत्व परिहत्तुमनादित्वमावे. दितमविद्यायास्तत्र बीजाकरवद्वेद्यान्तरोपगतसंसारवच्च तस्याः सत्यत्वमेव स्यात्, अनादिप्रबन्धप्रवृत्तत्वे चास्याः प्रतिकूलहेत्वन्तरोपनिपातकृतमपाकरणमुचितम, एकात्मवादिनां तु तदतिदुर्घटमित्यनिर्मोक्ष एव स्याद् , यथाह भट्टः-- स्वाभाविकीमविद्यां च नोच्छेतुं कश्चिदर्हति । विलक्षणोपपाते हि नश्येत्स्वाभाविकं क चिंत् । न त्वेकात्माभ्युपाधीनां हेतुरस्ति विलक्षणः ।। इति । यत्पुनरविद्यैव विद्योपाय इत्यत्र दृष्टान्तपरम्परोद्घाटनं कृतम् , तदपि क्लेशाय नार्थसिद्धये, सर्वत्रोपायस्य स्वरूपेण सस्वादसतः खपुष्पादेशपायत्वाभावात् , रेखागकारादीनां तु वर्णरूपतया सत्वं यद्यपि नास्ति तथापि स्वरू. पतो विद्यत एव । ननु गकारो ऽयमिति गृह्यमाणः स रेखासन्निवेशो ऽर्थप्रत्यायको भवति न चासौ तेन रूपेणास्ति, मैवम् , स्वरूपेणसतोऽर्थस्य रूपान्तरेणापि गृह्यमाणस्य कूटकार्षापणादेरिव व्यवहारहेतुता दृश्यते च युक्ता च, वस्तु स्वरूपत एव नास्ति तस्य स्वात्मना परात्मना वानव्यवहाराङ्गता समस्ति, रेखासन्निवेशश्च स्वरूपेण सन्निति वर्णात्मत्वेना सन्नपि तत्कार्याय पर्याप्नुयान्न त्वयमविद्यायां न्यायः स्वरूपासत्वात्तस्याः, सर्पादौ तु सर्पादिस्वरूपवत्तज्ज्ञानस्यापि तत्कार्यत्वमवगतमत एव शङ्काविषस्यापि स्वशास्त्रेषु चिकित्सामुपदिशन्ति, एवं नवगुहाकुहरादेष नि:मृतः केसरी सरोषमित एवाभिवर्तत इत्यसत्येऽप्युक्ते यद्भोरूणां भयपलायनादि शूराणां च सोत्साहमायुधोद्यमनादि सत्यं कार्यमुपलभ्यते तत्र सिंहज्ञानस्य तत्कार्यत्वात्तस्य च स्वरूपसत्त्वान्नासत एवोपायत्वम् , एतेन प्रतिबिम्बदृष्टान्ता ऽपि प्रत्याख्यातः, खड्गादेर्मुखादिकालुष्यकल्पनाकारणस्य तत्र सद्भावादिह तदसद्भावादिति । ___ यदपि बद्धमुक्तव्यवस्थासिद्धये पादवेदनाद्युदाहृतम्, तदप्येवमपाकृतमवच्छे. दकस्य पादादेस्तत्र तात्त्विकत्वात् इह तु भेदकल्पनाबीजमद्वैतवादिनो दुर्घट. मिति बहुशः प्रदर्शितम् । तदेवमत्र वस्तुसंक्षेपः-अविद्यायामसत्यां सर्व एवायं यथोदाहृतो व्यव हारप्रकारस्तत्कृत इति नावतिष्ठते सत्यां तु तस्यां नाद्वैतमिति, अत एवाह सूत्रकारः 'संख्यैकान्तासिद्धिः प्रमाणोपपत्त्यनुपपत्तिभ्याम्' (गौ० अ०४ श्रा० १ सू० ४१ ) इति, यदि तावदद्वैतसिद्धौ प्रमाणमस्ति तर्हि तदेव द्वितीयमिति ना. द्वैतम् अथ नास्ति प्रमाणं तथापि न तरामद्वतमप्रामाणिकायाः सिद्धेरभावादिति ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy