________________
९७
अपवर्गनिरूपणम् । न्यस्य तदितरविलक्षणस्य परिच्छेदादि, वायूपस्य तु परस्परोपरक्तपदार्थपुब्जस्व. भावः इतरपदार्थविशेषितान्यतमपदार्थरूपो वा वाक्यार्थों विषय इति पूर्वमेव निरू. पितमतः सर्वथा न भेदस्य प्रमाणाबाधितत्वम् , नाप्यभेदग्राहि किश्चन प्रमाणमस्ति यथोक्तेनैव न्यायेन, यस्त्वागमः पठितः -'एकमेवाद्वितीयं नेह नानास्ति किश्चने त्यादि, तस्यार्थवादत्वान्न यथाश्रुत एवार्थो ग्रहीतव्यः।
ननु सिद्धे ऽप्यर्थे वेदस्य प्रामाण्यमभ्युपगतमेव भवद्भिः, वाढमभ्युपगतं किन्तु धूम एवार्दिवा ददृशे नाचिरित्येवमादीनां प्रत्यक्षादिविरुद्धार्थाभिधायि. नामर्थवादानां मुख्यां वृत्तिमपहाय गौण्यापि वृत्त्या व्याख्यानमाश्रितम् , एव. मिदमपि वचनमितरप्रमाणाविरुद्धमर्थमभिदधदपरथा व्याख्यायते, ये तु प्रमा. णान्तरविरुद्धार्थानुवादिनो न भवन्त्यर्थवादास्तेषामस्तु स्वरूपे प्रामाण्यं 'वायुर्वै क्षेपिष्ठा देवते'त्येवमादीनाम , तस्मात्सुखदुःखाद्यवस्थाभेदे ऽपि नावस्थातुरा. त्मनो भेदो देहेन्द्रियादिनानात्वे वा न तस्य नानात्वमित्येवं यथा कथं चिदय. . मर्थवादो योजनीयः, अभेदोपदेशी तु तत्परः शब्दो विधिरूप इह नास्त्येव. मागमबलादपि नाद्वैतसिद्धिः । ___यत्पुनरविद्यादिभेदचोद्यमाशङ्कयाशङ्कय परिहृतं तत्राशङ्का साधीयसी स. माधानं तु न पेशलम् , तत्त्वान्यत्वाभ्यामनिर्वचनीयेयमविद्येति कोऽर्थः ?
अनादिना प्रबन्धेन प्रवृत्ताऽऽवरणक्षमा ।
यत्रोच्छेद्याऽप्यविद्येयमसती कथ्यते कथम् ।। अस्तित्वे क एनामुच्छिन्द्यादिति चेत् , कातरसन्त्रासोऽयं सतामेव हि वृ. क्षादीनामुच्छेदो दृश्यते नासतां शशविषाणादीनाम् , तदियमुच्छेद्यत्वादविद्या नित्या मा भूत्सती तु भवत्येव ।
नित्यं न शक्य मुच्छेत्तुं सदनित्यं तु शक्यते ।
असत्त्वमन्यदन्या च पदार्थानामनित्यता ॥ न च तत्त्वाग्रहणमात्रमविद्या, संशयविपर्ययावप्यविद्यैव तौ च भावस्वभावत्वात्कथमसन्तौ भवेताम् , ग्रहणप्रागभावो ऽपि नासन्निति शक्यते वक्तमभा. वस्याप्यस्तित्वसमर्थनादिति सर्वथा नासत्यविद्या।
असत्त्वे च निषिद्धेऽस्यास्सत्त्वमेव बलाद्भवेत् ।
सदसद्वयतिरिक्तो हिराशिरत्यन्तदुर्लभः ॥ सत्त्वे च द्वितीयाया अविद्याया भावान्नाद्वैतम् ।
यत्त-ब्रह्मणः सततप्रबुद्धत्वादविद्याक्षेत्रता नेति जीवानामविद्यास्पदत्वमभिहितमविद्योपरमे ब्रह्मणि परमे त एव घटाकाशवल्लीयन्ते-इति ।
तदपि न चतुरस्रम् , आकाशावच्छेदहेतोर्घटमानत्वादविद्यायास्त्वसत्त्वात्त. स्कृतः परमात्मनो ऽवच्छेद इति विषमो दृष्टान्तः, अवच्छेदकत्वाभावाच जीव