________________
न्यायमअर्याम् ऽपि न बुध्यसे घटाकाशे ऽपि घटभङ्गात्परमाकाशप्रतिष्ठे जाते पटाकाशोऽपि तथा भवति, एकस्यापि जीवात्मन उपाधिभेदात्सुखदुःखानुभवभेदो दृश्यते पादे मे वेदना शिरसि मे सुखं न वेदनेति तीव्रतरतरणितापोपनतातनुक्लमस्य च यत्रैव शरीरावयवै शिशिरहरिचन्दनपङ्कस्थासकमुपरचयति परिम्लानस्तत्रैव तहःखोपरमानुभवो नेतरत्रेत्येवमेकस्मिन्नपि परमात्मनि कल्पनामात्रप्रतिष्ठेष्व. पि जीवात्मसु बद्धमुक्तव्यवस्था सिध्यतीत्येकात्मवाद एवायमागमानुगुण उपयुक्तो नोनन्त्यमात्मनाम् ।
ब्रह्मदर्शनमेवातो निःश्रेयसनिबन्धनम् । भेददर्शनमूढानां संसारविरतिः कुतः ॥ इति । .
ब्रह्मवादिमतखण्डनम् । अत्राभिधीयते, कपटनाटकरहस्यप्रक्रियाकू!परचने तदनुगुणदृष्टान्तपरम्परोपपादने च किमुच्यते परं कौशलं भवताम् , प्रमाणवृत्तनिरूपरणे तु तपस्विन एव भवन्तः, तथा हि भेदस्य प्रमाणबाधितत्वात्किमयमभेदाभ्युपगमो भवतामुत स्विदभेदस्यैव प्रमाणसिद्धत्वादिति, द्वयमपि नास्ति प्रत्यक्षादीनि हि सोण्येव भेदप्रतिष्ठानि प्रमाणानि, यत्तावनेदस्य परापेक्षत्वान्मृत्पिण्डात्प्रभृति घटकपरचूर्णपर्यन्तकार्यपरम्पर(परिच्छेदे तदनुगतमृद्रूपताग्रहणे च सति मृदस्त. दभिन्नरूपत्वमवतार्यते नान्यथा, भिक्षवश्चाचक्षते चाक्षुषं ठयावृत्तस्वलक्षण. . ग्राहि नाभेदविषयमभेदस्य परापेक्षत्वादिति, अयमस्मादन्य इतीयं परापेक्षा प्रतीतिरिति चेदयमस्मिन्ननुस्यूत इतीयमपि परापेक्षैव, तदत्र भवांश्च भिक्षुश्च द्वावपि दुर्घहोपहतो भेदाभेदग्रहणनिपुणमक्षजमिति परीक्षितमेतद्विस्तरतः सामान्यचिन्तायाम् , अङ्गुलिचतुष्टयं हि प्रतिभासमानमितरेतरविभक्तरूपमप्यनुगतरूपमपि प्रकाशते. इत्युक्तम् ।
व्यावृत्तिरनुवृत्तिर्वा परापेक्षास्तु वस्तुषु ।
असङ्कीर्णस्वभावा हि भावा भान्त्यक्षबुद्धिषु ॥ यदप्युक्तम्--'आहुर्विधात प्रत्यक्षमिति तदप्यसाधु, विधात इति को ऽर्थः, इदमपि वस्तु स्वरूपं गृह्णाति नान्यरूपं निषेधति, प्रत्यक्षमिति चेन्मवम् अ. न्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसम्पत्तेः, पीतादिव्यवच्छिन्नं हि नीलं नीलमिति गृहीतं भवति नेतरथा, तथा चाह–'तत्परिच्छिन्नं त्वन्यद्वयवच्छिनत्ती'ति, भाववदभावमपि ग्रहीतुं प्रभवति प्रत्यक्षमिति च साधितमस्माभिरेवैतत् , तस्मादितरेतरविविक्तपदार्थस्वरूपग्राहित्वान्नाभेदविषयं प्रत्यक्षम् , शब्दानुमानयोस्तु सम्बन्धग्रहणाधीनस्वविषयव्यापारयोर्भेदमन्तरेण स्वरूपमेव नावकल्पते इति तावुभावपि भेदविषयावेव, विशेषविषयत्वाभावे ऽपि लिङ्गसामा.