________________
अपवर्गनिरूपणम् ।
९५
उच्यते-- 'जीवात्मनामविद्या न ब्रह्मणः ।
ननु के ते जीवात्मानस्ते ऽपि ब्रह्मणो ऽन्यानन्यतया चिन्त्या एव ? श्रः क्षुद्रतार्किक सर्वत्रानभिज्ञो ऽसि, ब्रह्मैव जीवात्मानो न ततो ऽन्ये न हि दहनपिण्डाद्भेदेनापि भान्तः स्फुलिङ्गा अग्निस्वरूपा न भवन्ति, तत्किं ब्रह्मण एवाविद्या ? न च ब्रह्मणो विद्या, यथा चैकमेव घटाद्यावरणोपहितभेदतया भिन्नमिव विभाति नभः पटाकाशं घटाकाशमिति तदावरणवशादेव च रजोधूमाः दिकलुषितमपि भवति तदावरणविरतौ तु गलितकालुष्यमले तत्रैव परमे व्योनि लीयते, तथैव चात्मानो ऽप्यविद्यापरिकल्पितभेदात्तत्कृत प्रनेकप्रकारकालुयमनुभवन्ति तदुपरमे च परब्रह्मणि लीयन्ते इति च ।
नन्वेवमप्यविद्यापरिकल्पित एष ब्रह्म जीवात्मविभागः, सा च जीवात्मनामविद्येत्युच्यते तदेतदितरेतराश्रय मापद्यते अविद्या कल्पनार्या सत्यां जीवात्मानो जीवात्मसु च सत्स्वविद्यति ? भवत्वितरेतराश्रयत्वम् अविद्याप्रपञ्च एवायमशेषः, कस्यैष दोषः यदि चानादित्वमस्य परिहारो बीजाङ्कुरवद्भविष्यति, भवद्भिरपि चायमनादिरेव संसारो ऽभ्युपगतः अविद्यैव च संसार इत्युच्यते ।
नन्वनादेरविद्यायाः कथमुच्छेदः ? किमनादेरुच्छेदो न भवति भूमे रूपस्य, भवद्भिर्वा कथमनादिस्संसार उच्छेद्यते, ननूपाये सत्यनादिरप्युच्छेद्यते अद्वैतवा दिनां तु कस्तदुच्छेदोपायः ? अविद्येवेति ब्रूमः, श्रवणमननध्यानादिरप्यविदयैव सा त्वभ्यस्यमाना सत्यविद्यान्तरमुत्सादयति स्वयप्युत्सीदति यथा पयः यो जरयति स्वयं च जीर्यति विषं विषान्तरं शमयति स्वयं च शाम्यति यथा वा द्रव्यान्तररजः क्षिप्तं रजः कलुषितेऽम्भसि तच्चात्मानं संहत्य स्वच्छ मम्बु करोति तदेवमियमविदयैवाविद्यान्तरमाच्छिन्दन्ती विद्योपायतां प्रतिपद्यते,
ननु स्वरूपेणासत्येवेयमविद्या कथं सत्यकार्यं कुर्यात्, उच्यतेसत्यादपि सत्यार्थसम्पत्तिरुपपत्स्यते ।
माया सर्पादयो दृष्टाः सत्यप्रभयहेतवः ॥
रेखागकारादयश्चासत्याः सत्यार्थप्रतीत्युपाया दृश्यन्ते, स्वरूपेण सत्यास्ते इति चेत्किं तेन क्रियते, गकारादित्वेन हि ते प्रतिपादकास्तच्चैषामसत्यमिति । ननु ब्रह्मणो नित्यशुद्धत्वाज्जीवानां च ततो ऽन्यत्वात्कथं तेष्वविद्यावकाशं लभेत ? परिहृतमेतद् घटाकाशदृष्टान्तोपवर्णनेनैव, अपि च यथा विशुद्धमपि वदनबिम्बमम्बुमणिकृपाणदर्पणादयुपाधिवशेन श्यामदीर्घस्थूलादिरूपमपारमार्थिकमेव दर्शयति तथा ब्रह्मणस्तदभावे ऽपि जीवेषु तदवकाश इति ।
ननु परमात्मनो नित्यत्वाज्जीवानामप्यन्योन्यमप्यनन्यत्वमित्येकस्मिन्बद्धे मुक्ते वा सर्वे बद्धाः मुक्ता वा स्युः ? यि कुतर्ककलुषितमते ! कथं बोध्यमानो