________________
न्यायमअर्याम् णविधिप्रयुक्तत्वमध्ययनस्येति, तस्मात्स्वाध्यायाध्ययनाग्न्याधानविधिसमानयोगक्षेमत्वादात्मज्ञानविधेस्तत एवात्मज्ञानमपवर्गार्थमवगम्यते, तथाविधस्वरूप
आत्मैव परोपजनितधर्मरहितो ऽपवर्ग इत्युच्यते यतः तदिदमित्थमात्मज्ञानमेव निःश्रेयससाधनमनन्यलभ्यमिति तमेवोपदिष्टवानाचार्योऽक्षपादः । यत्त विज्ञानसत्तात्मशब्दाद्यद्वैतदर्शनं तन्मिथ्याज्ञानमेवेति न निःश्रेयससाधनम् ।
ब्रह्मवादिमतेन मोक्षोपायानरूपणम् । ननु कथमद्वैतदर्शनं मिथ्या कथ्यते तत्प्रत्युत द्वैतदर्शनमविद्या मायापि मिथ्याज्ञानमिति युक्तम् , तथा हि प्रत्यक्षमेव तावनिपुणं निरूपयतु भवान , तत्र हि यदन्यानपेक्षतया भगिति पदार्थस्वरूपमवभासते तत्पारमार्थिकमितरत्काल्पनिकमिति गम्यते , सद्रूपमेव च तत्राभिन्न मन्यनिरपेक्षमवभाति भेदस्त्वन्यापे. क्षयेति नाक्षणविज्ञानविषयतामुपयाति, तत्र यथा मृदूपतातः प्रवृत्ति यावत्कुम्भावस्थेत्यस्मिन्नन्तराले आविर्भवतां च घटकपालशकलशर्कराकणादीनां रूप. मपरमार्थसदेव व्यवहारपदवीमवतरति परमार्थतस्तु मृत्तिकैव, यथा ऽऽहुः मृ. त्तिकेत्येव सत्यमिति, एवं तदपि मृत्तिकारूपं सत्तापेक्षया न परमार्थ सदिति सत्तेव सर्वत्र परमाथों तदेव सल्लक्षणं ब्रह्मेत्याहुः, आगमश्च 'एकमेवाद्वितीय. मित्यादिरभेदमेव दर्शयति 'नेह नानाऽस्ति किञ्चन मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यतीति च, वेदस्य च सिद्धे ऽप्यर्थे प्रामाण्यमुपत्रणितमेव भवद्भिः, न व प्रत्यक्षविरुद्धत्वमभेदशंसिनो वक्तुं शक्यमागमस्य न ह्यन्यनिषेधे प्रत्यक्ष प्रभवति स्वरूपमात्रग्रहणपरिसमाप्तव्यापारत्वात् , पररूपमन्तरेण च भेदस्य दुरुपपा. दत्वाद्भेदे कुण्ठमेव प्रत्यक्षमिति कथमभेदग्राहिणमागमं विरुन्ध्यात्तदुक्तम्--
आहुविधात प्रत्यक्ष न निषेध्यं विपश्चितः।
नैकत्व आगमस्तेन प्रत्यक्षेण विरुध्यते ।। ५ : { २१० २११ नन्वेकमेव ब्रह्म न द्वितीयं किंचिदस्ति तर्हि तद् ब्रह्म नित्यशुद्धबुद्धस्वभा. वत्वान्मुक्तमेवास्ते केन तद्वमिति किमर्थो ऽयं मुमुक्षुणां प्रयत्नः कुतस्त्यो वा ऽयं विधिन जगदवभासकः ? अविद्योच्छेदार्थे मुमुक्षुप्रयत्न इति ब्रूमः, ततस्त्य एवायं विचित्रजगदवभासः ।
केयमविद्या नाम, ब्रह्मणो व्यतिरिक्ता चेद् नाद्वैतम् अव्यतिरेके तु ब्रह्मैव सा, ततो नान्येत्येषेति कथमुच्छेद्यते ? मैवं न वस्तुनीशि तार्किकचोद्यानि क्रमन्ते, अविद्या त्वियमवस्तुरूपा माया मिथ्यावभासस्वभावा ऽभिधीयते, तत्त्वाग्रहणमविद्या अग्रहणं च नाम कथं वस्तुधर्मे विकल्प्यते ।
ननु तत्त्वाग्रहणरूपापि कस्येयमविद्या न हि ब्रह्मणो नित्यप्रबुद्धस्वभावत्वादविद्या भवति अन्यस्तु नास्त्येव तदाश्रयो न च निरधिकरणमेव मिथ्याज्ञानं भवितुमर्हति ?