________________
अपवर्गनिरूपणम् । माधिकारविधेविश्वजिति (१)रात्रिसत्रे (२)वा किमन्यस्क्रियतां न हि विधिस्वरूपपर्यालोचनातः कश्चिदधिकारी लभ्यते इति बलात्स्वर्गकामादिः कल्प्यते वा अर्थवादसमर्पितो वा ऽवलम्ब्यते , यत्र तु विधिस्वरूपमहिम्नैव तदुपलम्भः तत्र किं कल्पनया किमर्थवादवदनावलोकनदैन्येन वा, इह च स्वाध्यायो ऽध्ये. तव्य इति वदग्नीनादधीतेतिवद्वा कृत्येन द्वितीयया वेप्सिततमनिर्देशात्तनिष्ठत्वमेवावतिष्ठते । तत्र यथा ऽग्न्यर्थतया ऽऽधानविधिरवगम्यमानो ऽग्नीनामनेकविधिपुरुषार्थापयिककर्मकलापोपयोगात्तद्नेनैव कृतार्थत्वमुपगत इति न फलान्तरमपेक्षते यथा वा स्वाध्यायो ऽध्येतव्य इत्यक्षरग्रहणार्थत्वादस्य विधेरक्षरग्रहणस्य च फलवत्कमोवबोधद्वारेण परमपुरुषार्थापायत्वावधारणान्न तदतिरिक्तघृतमधुकुल्यादिफलोन्तरापेक्षित्वं न चाध्ययनविध्यङ्गत्वं स्वमहिम्नै. वेप्सिततमसंस्कारद्वारकाधिकारलाभात् , एवमिहाप्यपहतपाप्माद्यात्मस्वरूपपरिज्ञानमेव तस्य परपुरुषार्थतामवबोधथन्नास्य विधेरन्यप्रयोजनतामापादयति, कश्चिक्किल संस्कारविधिः संस्क्रियमाणप्रयोजनापेक्षया परमुखप्रेक्षी भवति वीहीन्प्रोक्षतीतिवत् , कश्चित्त संस्क्रियमाणप्रयोजनमलभमानस्तदीप्सिततमत्वा. निर्वाहणात्संकारविधित्वमेव जहाति सक्तून जुहोतीतिवत् , यथोक्तम्
भूतभाव्युपयोगं हि द्रव्यसंस्कारमिष्यते ।
सक्तवो नोपयोक्ष्यन्ते नोपयुक्ताश्च ते क चिद् ।। इति । संस्कार्यमनर्घमिव रत्नमपर्युषितमिवामृतमनस्तमिव चन्द्रबिम्बमपरिम्ला. नमिव शतपत्रमस्ति कस्तहि प्रकरणपाठापेक्षायामर्थवादमुखप्रेक्षणे फलकल्प. नायां वा ऽभिलाषः, अत एव न कामश्रुतप्रयुक्तत्वमाधानस्य न चाचार्यकर.
(१) विश्वजितीति । अयमाशयः-विश्वजिद्यागे प्रवृत्त्यर्थमिष्टसाधनताज्ञान. मवश्यमपेक्षणीयमिष्टसाधनताज्ञानस्य प्रवृत्ति प्रति कारणत्वात् तच्च इष्टं किमिति नियामकं नास्ति विश्वजिता यजेतेति श्रुतौ फलविशेषानिर्देशादिति किंचित्फलं स्वेच्छयाकल्पनीयमिति पूर्वपक्षे स विश्वजिद्यागफलं स्वर्ग: स्यात् सर्वपुंसामिष्टस्वादिति, स स्वर्गः स्यात्सर्वान् प्रत्यविशिष्टत्वात् ( अ० ४ पा० ३ सू०० १५) इति सूत्रेण जैमिनि. ना सिद्धान्तितम् ।
(२) रात्रिसत्र इति । रात्रिसत्रवाच्यानां ज्योतिर्गौरित्यादिवाक्यात्पन्नकर्मणां फलजिज्ञासायाम् विश्वजिन्न्यायनोत्पन्नाश्रुतस्वर्गादिफलकल्पने गौरवात् 'प्रतितिष्ठ. न्ति ह वा य एता रात्रीरुपयन्ति' इति अर्थवादश्रुता 'प्रतिष्ठैव फलमिति सिद्धान्तः तथा च न्यायमाला
स्वर्गाय वा प्रतिष्ठायै रात्रिसत्रभिहादिमः । पूर्ववत्स्यात्प्रतिष्ठा च श्रुता तेमाऽश्रुताद्वरम् ॥