________________
न्यायमअर्याम् नन्वात्मज्ञानमपवर्गहेतुरिति बहुशः कथितमेवैतदिति को ऽयं प्रश्नः, न विप्रतिपत्तेः, विप्रवदन्ते ह्यत्र वादिनः एक एवायमविद्यापरिकल्पितजीवात्मविभागः परमात्मा त्तत्त्वज्ञानादविद्यापाये मोक्ष इति ब्रह्मवादिनः, शब्दाद्वैतनिश्वयादिति वैयाकरणाः, विज्ञानाद्वैतदर्शनादिति शाक्यभिक्षवः, प्रकृतिपुरुषवि. वेकविज्ञानादिति पारमर्षाः, ईश्वरप्राणिधानादिति चान्ये, तदेवं कस्मै तत्त्वज्ञानाय स्पृहयन्तु मुमुक्षव इति वाच्यम् ।
स्वमतेनात्मतत्त्वज्ञाननिरूपणम् ।
उच्यते, भिन्नास्तावदात्मान इति गृह्यतामात्मज्ञानमेव च निश्रेयसाङ्गमिति, यत्तु कुतस्तस्य निःश्रेयससाधनत्वमवगतमिति, अक्षपादवचनादिति ब्रमः, अक्ष. पादस्तावदिदमुपदिष्टवान् आत्मज्ञानानिःश्रेयसाधिगम इति, न च निष्प्रमाणकमर्थमेष ऋषिरुपदिशति इति भवितव्यमत्र प्रमाणेन, तत्तु वैदिकविधिवाक्य'मात्मा ज्ञातव्य' इति, स एष तावन्निरधिकारो विधिरधिकाररहितस्य च विधेः प्रयोगयोग्यत्वाभावादधिकारान्वेषणमुपक्रमणीयम् , परप्रकरणपरिपठनविरहाच नास्य सम्पदादिविधिवत्प्रधानाधिकारनिवेशित्वमतो विश्वजिदधिकरणन्यायेन स्वर्गकाममधिकारिणमिह यावदुपात्तमध्यवस्यामस्तावदेव च 'न पुनरावतते' इत्यर्थवादसमपितेयमपुनरावृत्तिरेव हृदयपथमवतरति रात्रिसत्र इव प्र. तिष्ठेति तामेवास्य फलत्वेन प्रतिपद्यामहे ।
- सा चेयं साध्यमानापि रूपादेव हि शाश्वती ।
चकास्त्यपुनरावृत्तिर्न स्वर्गवदपायिनी ।। ननु दृष्टप्रयोजनालाभे सत्यदृष्टप्रयोजनपरिकल्पनावसरः इह च दृष्टमेव प्रयोजनमात्मज्ञानस्य कर्मप्रवृत्तिहेतुत्वमुपलभ्यते नित्येनात्मना विना भूतेष्वेव चेतनेषु श्मशानावधिषु बहुवित्तव्यायाससाध्यानि को नाम ज्योतिष्टोमादिकर्माण्य. नुतिष्ठेदिति नित्य आत्मा परलोकी ज्ञातव्यः, एवं हि निर्विशङ्कः कर्मसु प्रवते. तेति, तदिदमनुपपपन्नम् , अन्यत एव सिद्धत्वात्प्रत्यभिज्ञाप्रत्यक्षप्रत्ययेन जै. मिनीयरनुमानमहिम्ना च नैयायिकादिभिरात्मा नित्य इति निश्चित एव किमत्र विधिः करिष्यतीति, कर्त्तव्यताकलापोपदेशश्च तदानीमत्यन्तनिष्प्रयोजनः स्यात् , अमी च तथ्या नामातिमहान्तो वेदग्रन्था इयत्येव पर्यवसिता इति तदिदमुपनतं सेयं महतो वंशस्तम्बाल्लट्वा निष्कृष्यते इति, तस्मादर्थवादसमर्पितमपुनरावृत्तिरूपमेव फलमात्मज्ञानविधिरवलम्बत इत्येवं केचित् ।
सूक्ष्मतरदशिनस्वाहुः-इयमपि महती दुर्गतिर्यदर्थवादमुखप्रेक्षित्वमस्योत्त.