________________
अपवनिरूपणम् । तदीदृशमेनं मोक्षपथमुपदिशद्भिर्याज्ञिकर्मोक्षोपेक्षणमनक्षरमुपदिष्टं भवतीति, तस्मात्पूर्वोक्तनीत्यैव कर्मणां बन्धहेतुत्वमपाकरणीयम् । ___ ननु पक्षचतुष्टये ऽपि दोष उक्तः ? न चतुर्थपक्षस्य निरवद्यत्वात्सहकारिवैकल्यात्कुसूलावस्थितबीजवत्कर्मणामनारम्भकत्वे सति न कश्चिद्दोषः, एष एव च तेषां दाहो यत्कायोनारम्भकत्वम् ।
नन्वविनष्टस्वरूपाणि कुसूलबीजवदेव कदा चिदारप्स्यन्ते कार्य तस्माद्व. रमुच्छिद्यन्तामेव ? किमिदानीं नित्यमात्मानमप्युच्छेत्तु यतामहे स हि पुरा भोक्ताऽभूदिति मुक्तो ऽपि पुनभोक्ततां प्रतिपद्यतेति वरमुच्छिद्यतामेव । सोमप्रयभावात्कथं भोक्ततां गच्छेदिति चेत्कर्माण्यपि सहकार्यभावात्कथं कार्यमारभेरन् , न च कर्मणां बन्धकरणे रागादयोन सहकारिण इति वक्तुं शक्यं वीतरागस्य जन्मादर्शनादित्यसकृदुक्तत्वात् , तस्मादयमेव सूत्रकारोपदिष्टः पन्थाः पेशलो–'न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्येति । . यच्चेदमुच्यते-'ज्ञानकर्मसमुच्चयान्मोक्ष' इति, तत्रेदं वक्तव्यम्-कर्मणां कीशो मोक्ष प्रत्यङ्गभावः ? न हि कमसाध्यो माक्षः स्वगोदिवदनित्यत्वप्रसङ्गात् , अपिचात्मैव स्वरूपावस्थितो मोक्ष इत्युच्यते, न चात्मस्वरूपं कर्मसाध्यमनादिनिधनत्वेन सिद्धत्वात् ।
ननु नित्यकर्माननुष्ठाने प्रत्यवेयादिति तद्वारकबन्धपरिहारोपायत्वात्कमापि मोक्षाङ्गं स्यात् , न संन्यासविधानस्य प्रत्यक्षोपदेशादित्यक्तत्वात् , अपरिपक्ककषायाणां शनैः शनस्तत्परिपाकौपयिकत्वेन कर्मानुष्ठानं पारम्पर्येणापवर्गोंपाय इति तु बाढमभ्युपगम्यते, यथा ऽऽह मनु:-'महायज्ञैश्च यज्ञश्च ब्राह्मीयं क्रियते तनुरिति (अ० २ लो० ३८)। अध्यात्मविदश्च ज्ञानकाण्डोपयिकमेव क्रियाकाण्डमन्यत् , साक्षात्त कर्मसाध्येऽपवर्गे स्वर्गवदपायित्वप्रसङ्गात्कृतकस्य सर्वस्यानित्यत्वात्तत्त्वज्ञानमेव मोक्षोपाय इत्युक्तम् । ___ यदपि यमनियमादिषु साध्यभूतं तदपि तदङ्गतां गच्छन्न वार्यते, त. स्कार्यत्वेऽपि यावद्गुणप्रध्वंसाभावस्वभावत्वान्मोक्षस्य न क्षयित्वं स्वर्गवददन्यस्तु न मोक्ष इत्युक्तम् ।
तत्पूर्वोक्तप्रक्रमेणापवर्गप्राप्तस्तत्त्वज्ञानमेवाभ्युपायः । कर्म त्वङ्ग तत्र शौचादि किंचित्किञ्चित्तत्स्यादात्मसंस्कारपूर्वम् ।।
आत्मतत्त्वज्ञाननिरूपणाय विप्रतिपत्तिप्रदर्शनम् । आह-तत्वज्ञानमिदानी चिन्त्यतां किं विषयं तदपवर्गाय कल्पते कुतो वा तस्य नि: श्रेयससाधनत्वमवगतमि'ति ।