________________
न्यायमञ्जयम्
स्वर्गकामो यजेत, अग्निहोत्रं जुहुयात्स्वर्गकाम' इति । न फलाभिसन्धानपूर्वक - त्वेनाप्रयोगात् यथा ssह
"
प्रार्थ्यमानं फलं ज्ञातं नानिच्छोस्तद्भविष्यति ।
इति संयोगप्रवृत्तौ विशेषः, प्रयोगे ऽपि विशेषः काम्यं कर्म सर्वाङ्गोपसंहारेण प्रयुज्यमानं फलसाधनमिति, यथा शक्तिस्त ( था त) तथा प्रयोक्तव्यमिति नित्यस्यकर्मणा करणात्प्रत्यवाय इति यथाशक्त्यपि तत्प्रयोक्तव्यमनुष्ठाता तु सर्वाण्यङ्गानि यद्यसावुपसंहर्तुं न शक्नुयान्मा प्रवर्त्तिष्ठ न त्वप्रवर्तमानः प्रत्यवेयादिति, एवं तदेव दर्शपौर्णमासादिकर्म ' यावज्जीवमिति चोदनयोपदिष्टं नित्यं सत्तत्फलाभिसन्धानात्प्रयुक्तं न बन्धाय कल्पते, क सा स्वर्गसाधनशक्तिरस्य गतेति चेद्, न वयं कर्मणां शक्तिमशक्ति वा प्रत्यक्षतः पश्यामः शास्त्रैकशरणास्तु श्रोत्रिया वयं चोदनैव धर्मे प्रमाणमिति नः कुलत्रतमेतत् सा च चोदनेकत्र कामिनमधिकारिणमाश्रित्य प्रवृत्ता तदधिकारच फलनिर्वृत्तविना न स्यादिति फलपर्यन्ततां प्रतिपद्यते, अन्यत्र तु यावत्पदोपबद्धजीवनपदार्थावच्छिन्नाधिकारिलाभेन प्रवर्तमाना न फलाय भवत्यक्रियमाणे तु शास्त्रार्थे प्रत्यवायाय प्रभवत्यधिकृतेन सता शास्त्रार्थस्त्यक्त इति, काम्ये त्वनुत्पन्न कामोऽधिकृत एव न भवति इति नाधिकृतेन सता विधिस्त्यक्त इति न प्रत्यवैतीति, उपक्रम्य त्वन्तराले त्यक्तुं न लभ्यत एव वीतायां फलेच्छायामवाप्ते वा फले तत्कर्मसमापनमवश्यकर्त्तव्यमेव तदित्यलं शास्त्रान्तरगर्भेण भूयसा कथाविस्तरेण, सर्वथा सुठक्तं नित्यनैमित्तिके कुर्यादिति, न खलु खुलभो ऽयं पुरुषार्थः किं न श्रुतमिदमायुष्मता व्यासवचनम् --
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् (भग०० ६ श्लो० ४५ ) इति । ज्ञानाग्निदाहवचनं (१) तु ज्ञानप्रशंसार्थमेव, सोऽयं ज्ञानकर्मसमुच्चयान्मोक्ष उच्यते ।
ज्ञानकर्मसमुच्चयवादनिरासः ।
अत्राभिधीयते--- न खलु फलोपभोगद्वारकः कर्मणां परिक्षयां जन्मशतैरपि शक्यक्रियः, उक्त हि-
एकमेवेशं कर्म कर्तुमापतति कचित् । जन्मायुतशतेनापि यत्फलं भुज्यते न वा ॥ देहैस्तत्कर्मभोगार्थेः कर्मान्यन्न करिष्यते । कर्मसाधनमित्येषा दुराशैव तपस्विनाम् ॥
( १ ) ज्ञानाग्निदाहवचन - ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन!, इत्येरूपम् ।