________________
अपवर्गनिरूपणम् । यितुमुत्सहन्ते, भृष्टवोजानामपि स्वरूपशक्तिरपि तानवं गता तद्वत्कर्मणां स्वरूपशक्तिशैथिल्यं मा नाम भूत्तथापि कुसूलवर्तिबीजवत्सहकारिवैधुर्यात्कार्या. नारम्भ इति, तदिदमुक्तम् 'न प्रवृत्तिः प्रतिसन्धानाय होनक्लेशस्येति', (गो० अ०४ आ० १ सू०६४)।
ननु स्वरूपसत्तायां धर्माधर्मयोः कथमिदमुक्तं-'नवानामात्मगुणानां निर्मूलोच्छेदो ऽपवर्ग' इति, नैष दोषः-मनसंयोगवदकिञ्चित्करयोरवस्थानमप्युच्छेदान्न विशिष्यते , उक्तस्यात्मनो विभुत्वादपरिहार्यों मनसंयोगः, न च तदानीमसौ सन्नपि सुखदुःखज्ञानादिजन्मनि व्याप्रियते, एवं धर्माधमौ सन्तावपि फलमाक्षिपन्तो किं करिप्यत इति फलत उच्छिन्नावेव भवतः, तस्मान्नवानात्मगुणाना. मुच्छेदोऽपवर्ग इत्यविरुद्धम् , एवं प्रवृत्त्यनुबन्धस्यापि बन्धहेतोरभावान्न दुर्गमो ऽपवर्गः।
- ज्ञानकर्मसमुच्चयवादः। ___ अपरे पुनराहुः-कर्मफलानां शास्त्रतः कार्यकारणभावनियमावगतेः शमस. न्तोषशीतातपादिद्वारकसुखदुःखमात्रोपपादनेन कर्मपरिक्षयानुपपत्तेः योगद्धर्य च दीर्घकालावधिसुखदुःखोपभोगस्य सकृदेव सम्पादयितुमशक्यत्वाजज्ञानामिना च दाहे तत्कर्मोपदेशिवदिकवचनसाथीनथक्यप्रसङ्गात् अदत्तफलस्य कर्मणो ऽनुपरमात् अवस्थानपक्षे चिरमप्युषित्वा कुसूलावस्थितबीजवत्कालान्तरेणापि तत्फ. लाक्षेपप्रसङ्गादवश्यं स्वफलोपभोगद्वारक एव कर्मक्षयो वाच्यः, न चानिर्मोक्ष आशङ्कनीयश्चिरादपि तत्सिद्धिसम्भवात् , तथा च मुमुक्षुनित्यनैमित्तिकं कर्मावश्यमनुतिष्ठेदननुतिष्ठन्प्रत्यवेयादिति तत्कुतोऽस्य बन्धः स्यात् , काम्यं नि. षिद्धं च कर्म स्वर्गनरककारि विस्पष्टमेव बन्धसाधनमिति तत्परिहरेदेवेत्येवं तावदुत्तरो ऽस्य न कर्मसञ्चयः प्रवर्तते, तदाह
नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया ।
मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ।। इति । प्राक्तनस्य तु कर्मसञ्चयस्य भोगादेव क्षयः, आत्मविदश्च मुमुक्षोरयमनुष्ठानक्रमो भवति नेतरस्येति स एवेत्थमपवयेतेति, आह च
आत्मज्ञे चैतदस्तीति तज्ज्ञानमुपयुज्यते । तत्र ज्ञातात्मतत्त्वानां भोगात्पूर्व क्रियाक्षये ॥
उत्तरप्रचयासत्त्वादेहो नोत्पद्यते पुनः । ननु नित्यकर्मानुष्ठानपक्षे नास्त्येव मोक्षः, यान्येव हि नित्यानि दर्शपौर्णमा. सादिकर्माणि 'यावज्जीवं दर्शपौर्णमासाभ्यां यजेते'त्यादिचोदनोपदिष्टानि ता. न्येव फलवन्ति श्रूयन्ते इति काम्यान्यपि भवितुमर्हन्ति, 'दर्शपौर्णमासाभ्यां