________________
न्यायमअर्याम् दोषानुबन्धकथानुबन्धेन ।
यदपि प्रवृत्त्यनुबन्धादिति , तदपि सूत्रकृता समाहितम् , न प्रवृत्तिः प्रति सन्धानाय हीनक्लेशस्येति (गो० अ०४ आ० १ सू०६४)। दोषेषु बन्धहेतुषु विगलितेषु प्रवृत्तिरपि न देहेन्द्रियादिजन्मने प्रभवतीति ।
ननु दोषक्षयान्मा भूदुत्तरः कर्मसंग्रहः ।
कथं फलमदत्वा तु प्राक्तनं कर्म शाम्यति ।। .. अत्र के चिदाहुः-ददत्येव कर्माणि फलं दत्वा शाम्यन्ति तथापि न बन्धहे. सवो भवन्ति, यतः शमसन्तोषादिजनितं योगिनः सुखमुपपाद्य धर्मों विनश्यति अधर्मश्च शीतातपक्लेशादिद्वारकं दुःखं दत्वेति ।
नवमुष्मात्कर्मण इदं फलं भवतीति कर्मफलानां कार्यकारणभावनियमा. स्कथमियता कर्मफलोपभोगो भवेदित्यन्यथा तदुपभोगमपरे वर्णयन्ति, योगी हि योगद्धिसिद्धया विहितनिखिलनिजधर्माधर्मकर्मा निर्माय तदुपभोगयोग्यानि तेषु तेषूपपत्तिस्थानेषु तानि तानि सेन्द्रियाणि शरीराणि रण्डान्तःकरणानि च मुक्तैरात्मभिरुपेक्षितानि गृहीत्वा सकलकर्मफलमनुभवति प्राप्तैश्वर्य इतीत्थमुप. भोगेन कर्मणां क्षयः । ___ अन्ये त्वाचक्षते-किमनेन भोगायासेन अदत्तफलान्येव कर्माणि योगिनो नयन्ति तत्त्वज्ञानस्यैव भगवतः इयान प्रभावो यदस्मिन्नुत्पन्ने चिरस. ञ्चितान्यपि कर्माणि सहसैव प्रलयमुपयान्ति भोगादपि तेषां प्रक्षयः शास्त्र. प्रामाण्यादेवावगतः तथा तत्प्रामाण्यादेव तत्त्वज्ञानादपि तत्प्रक्षयं प्रतिपत्स्योमहें, तथा चाहं
यथैधांसि समिद्धो ऽग्निर्भस्मसात्कुरुते ऽर्जुन!। ... ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते तथा ।। इति ।
(भ० गी० अ० ४ श्लो० ३७) .: न चेदं श्रद्धामात्रं वेदविदामग्रण्या व्यासमुनिनैव समभिधानादवेदाथ हि नासावभिदधीतेति ।
तदन्ये न मन्यन्ते, न सर्वात्मना कर्मणां दाहः किन्तु स्वरूपेण सतामपि सहकारिवैकल्यात्स्वकार्यकरणोदासीनता तेषां भवति भृष्टानामिव बीजाना. मङ्करकरणकौशलहानिः, यतः सामग्री कार्यस्य जनिका न केवलं कारकमतो न कर्माण्येव केवलानि फलोपभोगयोग्यशरीरेन्द्रियादिजन्मनिमित्ततामुप. यान्ति किन्तु मिथ्याज्ञानेन दोषैश्च सहितानि, तदुक्तम्-'अविद्योतृष्णे धर्माः धौ च जन्मकारणमिति' तत्त्वविदश्च तत्त्ववित्त्वादेव नाविद्या मिथ्याज्ञाना. त्मिका भवति, दोषाणां तु प्रशमे दर्शित एव क्रमः, तदभावे भवन्तावपिं धर्मा. धमौ न बन्धाय कल्पेते न हि स्वकार्य मकरादि कुसूलवर्तीनि बीजावि जन.