________________
अपवर्गानिरूपणम् ।
नानुकूलः प्रिये हेतुः प्रतिकूलो न विप्रिये । 2. स्वकर्मफलमश्नामि कः सुहृत्कश्च मे रिपुः ॥ .
एवमहर्दिवं चिन्तयतां नितान्तं मनःसमचित्तता सर्वत्र समुद्भवतीति वि. लीयन्ते दोषप्रन्थयः।
अत एवोपदिश्यन्ते मोक्षशास्त्रेष्वनेकशः ।
तस्य तस्योपघाताय तास्ताः प्रत्यूहभावनाः ।। - ननु च प्रतिपक्षभावने ऽपि न सर्वात्मना दोषपक्षः क्षयमुपयाति निम्बाघुपयोगे इव क्रियमाणे कफधातुरिति, नतदेवं तत्र निम्बोपयोगवत्तदनुकूल. स्यातपादेरुपयोगदर्शनात्। अपि च
धमिलोपभयात्तत्र नेष्टः सर्वात्मना क्षयः ।। कफाधिक्यं तु हन्तव्यं धातुसाम्यस्य सिद्धये ॥ इह सर्वात्मनोच्छेद्याः क्लेशाः संसारकारिणः ।
छेदश्चैकान्ततस्तेषां प्रतिपक्षोपसेवनात् ।। न च प्रतिपक्षभावनाभ्यासमेकमस्त्रमपास्य तदुपशमे निमित्तान्तरं किमपि क्रमते, न हि विषयाभिलाषस्तदुपभोगेन विरंस्यति, यथा ऽऽह
न जातुः कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाभिवर्धते ॥
( मनु० अ० श्लो ९३) अन्यत्राप्युक्तम्-मोक्षाभ्यासमनु विवर्धन्ते कौशलानि चेन्द्रियाणामिति, पाराशयों ऽपि
तृष्णाखनिरगाधेयं दुष्पूरा केन पूर्यते ।
या महद्भिरपि क्षिप्तः पूरणैरेव खन्यते ।। इति । तस्मात्प्रतिपक्षभावनैव भगवती भीमकान्तिरन्तः करणकान्तारे निरन्तर मभिज्वलन्ती दावदहनदीधितिरिव दहति दोषविटपकानिति, तदेवं दोषानुक. न्धविध्वंसोपायसम्भवान्न तत्कृतो मोक्षमार्गरोधो ऽभिधातव्यः, अत एव के चन चेतनस्य प्रकृत्या निर्मलत्वान्मलानामागन्तुकत्वान्मलनिबर्हणहेतोश्च यथो. क्तस्य सम्भवात्तदावरणापाये सति स्वतः सकलपदार्थदर्शनसामर्थ्यस्वभावचित्तत्त्वावस्थानात्सर्वज्ञत्वसिद्धिमदूरवर्तिनीमेव मन्यन्ते । ___ यदप्युच्यते-'क्लेशशून्यत्वमात्मनो न कदा चिदपि दृष्टमनुबन्धवृत्तित्वात् क्लेशानामि ति, तदप्यसत्यम् , सुषुप्तावस्थायामस्पृष्टस्य दोषैरात्मनः प्रत्यहमपलम्भोत् , जाप्रतो ऽपि का चन तादृशी दशा दृश्यत एव यस्यामेवात्मस्वरूप एवात्मा निर्मलो ऽवतिष्ठते यथोक्तम्-अहरहब्रह्मलोकं यान्तीति' तदलमनेन