________________
न्यायमअयाम्
क्लेशोपशमस्य सुशकत्वात् । यद्येषां नित्यो हेतुर्भवेत्कार्यो वा, यद्यसौ न शायेत ज्ञातोऽपि वाऽनुष्ठातुमसौ न शक्येत तदा क एवैनमुच्छिन्द्यात् , किन्तु.. , नाकस्मिका न नित्यास्ते न नित्याज्ञातहेतुकाः ।
नाज्ञातशमनोपाया न चाशक्यप्रतिक्रियाः ॥ न हि दोषाणामात्मस्वरूपवन्नित्यत्वमुपजननापायधर्मकत्वेन ग्रहणात् , मि. थ्याज्ञानं च प्रसवकारणमेषामवधृतमिति नाकस्मिकत्वमविनाशिहेतुकत्वमज्ञात. तुकत्वं वा। मिथ्याज्ञानस्य च सम्यग्ज्ञानं प्रतिपक्षः प्रतिपक्षभावनाभ्यासेन च समूलमुन्मूलयितुं शक्यन्ते दोषा इति नाज्ञातप्रतीकारत्वं तेषाम् , उक्तं च केन चित्
सर्वेषां सविपक्षत्वान्निर्हासातिशयाश्रिताः । सात्मीभावात्तभ्यासाद्धीयेरनामुना क चित् ॥ इति ।
वैराग्याथै विषयेषु दोषभावना । विषयदोषादर्शनेन हि तेषु सक्तिलक्षणो रागः शाम्यति यदा ह्येवं चिन्तयति विवेकी
असौ तरलताराक्षी पीनोत्तुङ्गधनस्तनी । विलुप्यमाना कान्तारे विहगैरद्य दृश्यते ।। विभाति बहिरेवास्याः पद्मगन्धनिभं वपुः । अन्तर्मजास्थिविणमूत्रमेदःक्रिमिकुलाकुलम् ।। अस्थीनि पित्तमुच्चाराः क्लिन्नान्यन्त्राणि शोणितम् । इति चर्मपिनद्धं सत्कामिनीति विधीयते ॥ मेदोग्रन्थी स्तनो नाम तौ स्वर्णकलशौ कथम् । विष्ठाहतो नितम्बे च को ऽयं हेमशिलाभ्रमः ॥ मूत्रासृग्द्वारमशुचि च्छिद्रं क्लेदि जुगुप्सितम् । तदेव हि रतिस्थानमहो पुंसां विडम्बना ।। प्रीतिर्यथा निजास्योत्थं लिहतः शोणितं शुनः । शुष्के ऽस्थनि तथा पुंसः स्वधातुस्पन्दिनः स्त्रियाम् ।। ध्यात्तानना विवृत्ताक्षी विवणा श्वासघुधुरा। कथमद्य न रागाय ब्रियमाणा तपखिनी ।। अहो व्रणे वराको ऽयमकाले तृषितः फणी। प्रसारितमुखो प्यास्ते शोणितं पातुमागतः ॥ किमनेनापराद्धं नः स्वभावो वस्तुनः स्वयम् ।। स्पृश्यमानो दहत्यग्निरिति को ऽस्मै प्रकुप्यति ।।