________________
अपवनिरूपणम् । वादस्याप्यपरित्यागप्रतिपादनाय कर्मप्रसंशार्थत्वात् , 'ये चत्वारः पथयो देवयाना' इत्यादयो हि चतुर्थाश्रमशंसिनो भूयांसः सन्ति मन्नार्थवादाः, मन्त्रादिस्मृतिवचनानि चतुर्थाश्रमोपदेशीनि चतुर्थाश्रमोचितश्रोताचारादीतिकर्तव्यतावि. तानविधानपराणि च प्रबन्धेनैव दृश्यन्ते ।।
एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः।
वने वसेत्त नियतो भैक्षभुग्विजितेन्द्रियः ।। (मनु अ० ६श्लो०१) इत्युपक्रम्य चतुर्थाश्रमोचितमोक्षोपायानुष्ठानोपदेशाय षष्ठोऽध्यायः समस्त एव मनुना ऽनुक्रान्तः, जाबालश्रतौ च विधायकेनैव ब्राह्मणवाक्येन प्रतिपदमाश्रमचतुष्टयमुपदिष्टम् -'ब्रह्मचारी भूत्वा गृही भवेद् गृही भूत्वा वनी भवेद्वनी भूत्वा प्रव्रजेदिति, अग्निसमारोपणविधानोपदेशश्च प्रत्यक्षश्रुतः कथमपन्हूयेत'आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद् गृहादि'ति, अपि च उपनिषदामध्यय. नमसति मोक्षोपयोगसमर्थे चतुर्थाश्रमे निरर्थकमेव प्राप्नोति , क्रियाकाण्डानुष्ठाननिष्ठत्वे हि वेदस्य ज्ञानकाण्डोपदेशः किम्प्रयोजनः स्यात् , तदेवं वर्णवदा. श्रमाणामपि चतुणी प्रत्यक्षोपदेशसिद्धत्वाचतुथोश्रमिणां च मोक्षाधिगमोपायत. त्वज्ञानभावनाभ्यासावसरसम्भवात्सो ऽयं जरामर्यवादः प्रशंसामात्रपरः एवा. वतिष्ठते, 'जरया ह वा एष एतस्मान्मुच्यते मृत्युना वेति च वचनाज्जरसा कर्मत्यागानुज्ञानात्स एव चतुर्थाश्रमावसर इति गम्यते, तदुक्तम्-..
गृहस्थस्तु यदा पश्येद्वली पलितमात्मनः ।
अपत्यस्यैव चापत्यं तदा ऽरण्यं समाश्रयेत् ।। (मनुअ०६ श्लो०२) इतरथा हि मृत्युनैव च तस्मान्मुच्यते इत्यवक्ष्यत न त्वेवमब्रवीत् , त. स्माद्वार्धकदशोचितं चतुर्थमाश्रममनुमन्यते, तिष्ठतु वा वार्धकदशा यतोऽपि परिपक्ककषायस्याश्रमचतुष्टयक्रममनपेक्ष्यव मोक्षाधिकार आख्यातः यथोक्तं 'ब्रह्मचर्यादेव प्रव्रजेदिति, अत एव द्विविधो ब्रह्मचारी भवत्युपकुर्वाणो नैष्ठिकश्च, तत्रोपकुर्वाणको यो ब्रह्मचर्यमनुभूय गृहस्थाश्रममनुभवति स चापरिपककषायो. ऽनुपशान्तगाईस्थ्यरागः, तमेव प्रतीदमुच्यते-'अनधीत्य द्विजो वेदाननुत्पाद्य च सन्ततिम् । अनिष्ट्रा चैव यज्ञश्च मोक्षमिच्छन्त्रजत्यधः । (मनु०अ० श्लो३७) इति, यस्तु परिपककषायः स नैष्ठिक एव ब्रह्मचारा भवति न गृहस्थाश्रमं प्रति. पद्यते, गृहस्थो ऽपि परिपककषायो वानप्रस्थाश्रममुल्लङ्य यतित्वे ऽधिक्रियते यथोक्तम् , 'गृहाद्वनाद्वा प्रवजेदिति ।। ' के चित्त कर्मफलाभिसन्धिरहितस्य कर्तव्यमिति कर्म कुर्वतः क्षीणराग. स्यात्मविदो गृहस्थस्यापि (मोक्षः?), यो ऽतिथिप्रियः श्राद्धकद्वेदविद्याविद गृहस्थो ऽपि विमुच्यते इति, वस्मादृणानुबन्धादपवर्गाभाव इत्ययुक्तम् ।
यत्तु क्लेशानुबन्धादिति तदप्यनध्यवसायमात्रम्, प्रतिपक्षभावनादिना