________________
न्यायमअयाम् रागादिप्रेर्यमाणो हि कर्माण्यारभते नरः। दीर्घदीर्घाः प्रतायन्ते यैर्धर्माधर्मवासनाः ।। स प्रवृत्त्यनुबन्धश्च हेतुरन्यस्य जन्मनः । एकमेवेदृशं कर्म कर्तुमापतति क चित् ।। जन्मायुतशतेनापि यत्फलं भुज्यते न वा ।। ल्केशकर्मानुबन्धोत्थजन्मदुःखादिशृङ्खला। पुनरावर्तमानैषा केनोपायेन भज्यताम् ।। विना फलोपभोगेन न हि नाशोऽस्ति कर्मणाम्। तेषां ज्ञानाग्निना दाह इति श्रद्धाविजम्भितम् ।। कार्यकारणभावो हि शास्त्रादेवावधारितः । कर्मणां च फलानां च स कथं वा निवर्तताम् ।। न चास्य ज्ञानसापेक्षं कर्मेष्टं बन्धकारणम् ।
येनात्मज्ञानयुक्तानां तदुदासीत तं (१)प्रति ।। अज्ञाननैरपेक्ष्येण कर्मणां स्वभाव एवैष यत्फलाविनामावित्वमिति ।
तस्मादित्थमृणक्लेशप्रवृत्त्यभ्यनुबन्धतः । न मोक्षसिद्धिरस्तीति तदर्थो विफलः श्रमः ।। अशक्ये ऽर्थे वृथा ऽऽयासं परित्यज्य मनस्विभिः । मोक्षचर्चाः परित्यज्य स्खे गृहे सुखमास्यताम् ।
.. मोक्षोपायानुष्ठानसम्भवः । - अत्राभिधीयते-यत्तावदुक्तमृणानुबन्धादिति, तद्युक्तम् , विधिपक्षश्रवणादौपचारिकमृणशब्द जायमानशब्दं च प्रयुज्य कर्मस्तुतिरियं क्रियते. 'जायमानो ह वै ब्राह्मण इति' न तद्यतिरिक्तपुरुषार्थविषयप्रयत्नप्रतिषेधो विधीयते, तथा हि ऋणशब्दो ऽयं विषयान्तरे मुख्यार्थः प्रसिद्धो यत्रोत्तमर्णः सलामममुतः प्रतिग्रहीष्यामीति धनमधमय प्रयच्छत्यधमोऽपि सलाममस्मै प्रदास्यामीति मत्वा गृहाति, साऽयमृणशब्दस्य मुख्यो विषय इह नास्त्येव, जायमानो ऽपि मुख्य उत्पद्यमानो ऽपि मातुः कुक्षिकुहरान्निस्सरन्नमिधीयते न चासो बालकः कर्मभिरभिसम्बध्यते, तस्माद् ब्रह्मचर्यमपत्योत्पादनमध्वरप्रयोग इति त्रयमिदमवश्यकर्तव्यमिति कर्मस्तुतिरियमौपचारिकपदप्रयोगाद्गम्यते, न चैतावता. मोक्षव्यवसायावसरविरह इति परिशङ्कनीयमाश्रमान्तरस्य तदोपयिकस्य दर्शनात् । ननु मरणावधिदर्शपूर्णमासकर्मोपदेशात्कथमाश्रमान्तरग्रहणम्?, नजरामर्य(१) तं-बन्धम् । ...