________________
अपवनिरूपणम् ।
८ न तूद्यमसमये तदधिगमसमर्थामुपलभामहे सरणिमृणक्लेशप्रवृत्त्यनुबन्ध. स्य दुस्तरत्वात् , ऋणानुबन्धस्ता'वज्जायमानो ह वै ब्राह्मणस्त्रिभिऋणऋणवान् जायते ब्रह्मचर्येण ऋषिभ्या यज्ञेन देवेभ्यः प्रजया पितृभ्य इति' इदं हि वेदे पठ्यते, तत्र प्रथममृषीणामनृणः स्यामिति ब्रह्मचर्यमाचरति ततः पितणामनृणः स्यामिति कृतदारसङ्ग्रहः प्रजोत्पादनाय व्यवहरति तदनु गृहस्थ एवं दर्शपूर्णमासादिषु सहस्रसंवत्सरपर्यन्तेष (१)कर्मस्वधिकृतः क्रतूननुतिष्ठतीति देवानामनृणः स्यामिति को ऽस्य मोक्षव्यवसायावसरः ।
ननु च 'ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्' इति मन्वादिस्मर. णादस्त्येव तदवसरः । न श्रुतिवाक्यविरोधात् , एवं हि श्रूयते 'जरामय वा एत. सत्रं यदग्निहोत्रं दर्शपौर्णमासौ च जरया ह वा एष एतस्मान्मुच्यते मृत्युना वेति' न च कर्मप्रयोगाशक्त्या कर्मभ्यो विरन्तुं लभ्यते, स्वयमशक्तस्य बाह्यशक्त्युपदे. शात्-'अन्तेवासी जुहुयाद् ब्रह्मणा हि स परिक्रीतः क्षीरहोता जुहुयाद् घृतेन हि स परिक्रीतः' अशक्तस्य च मोक्षोपायानुष्ठाने ऽप्यस्य कथं शक्तिः । क्लेशा. नुबन्धादपि अपवर्गाभावः
ये हि रागादयो दोषा श्रात्मनश्चिरसंभृताः । कस्तान्वश्चयितुं शक्तः पुनरावृत्तिधर्मकान् ।। कामं चिरं विजित्यापि क्रोधं वा लोभमेव वा ।
पुनर्गच्छन्वशं तेषां लोकः प्रायेण दृश्यते ॥ तथा हि-चिरमपि तपसि नियमितमतिरवजितविषमशरविकृतिरपि तनु(२)पवनापनीतवसनकामिनीस्तनजघनदर्शनादेव वशं विश्वामित्रः कुसुमधन्वनो गत इति श्रूयते किल ह्याख्यायिकया, अद्यत्वे ऽप्येवं शतशो दृश्यन्ते इति दुरुच्छेद्या दोषाः, 'वीतरागजन्मादर्शनादिति च विचारितमात्मपरीक्षायामवियुक्त एव दोषैर्जन्तुर्जायते इति, दोषविवृद्धिहेतवश्व रूपादयो विषयास्ते कथमिव स्वकर्मण्युदासते।
ताम्बूलं कुसुमसुगन्धयस्समीरास्सौधेषु प्रतिफलिताः शशाङ्कभासः । वाचश्च प्रणयनवामृतद्रवार्दा दूतीनां दधति न कस्य रागवृद्धिम् ॥ अपि च
मुग्धस्मितसुधाधीतमधुरालापशालिना। मुखेम पचमलाक्षीणां कस्य नाक्षिप्यते मनः।
इत्येवं निदानानुपशमादपि स्थित एव क्लेशानुबन्धः । प्रवृत्त्यनुबन्धः __ खल्वपि-- (१) संवत्सरशब्दोऽत्र दिनवाची 'नाहः संघस्ततोऽहः सु गौणी संवत्सराभिधा। तस्मादिश्चरजां सत्रं सहस्रदिनमिष्यते इति न्यायमालादर्शनात् । (२) तनु:-मन्दः ।