________________
न्यायमअयाम्
मोक्षोपायनिरूपणम् । आह भवत्वयमीदगपवर्ग: स तु कथमधिगम्यते इत्युच्यताम् ? उक्तमेव भगवता सूत्रकारेण ।
दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादिति(१) (गो० अ० ५ आ १ स)।
दुःखोच्छेदस्तावदपवर्ग इति कथितम् , कार्यत्वाच्च दुःखस्य कारणच्छेदात्तदुच्छेदः, कारणं चास्य जन्म जन्मनि हि सति दुःखं भवति, जायते इति ज. न्म देहेन्द्रियादिसंबन्ध आत्मनः, तदपि जन्मकारणोच्छेदादेवोच्छेद्यमतस्तत्का. रणं प्रवृत्तिरुच्छेद्या, तस्या अपि उच्छेदो हेतूच्छेदादिति तद्धतवो दोषा उच्छेद्याः, तेषां तु निमित्तं मिथ्याज्ञानं तस्मिन्नुच्छिन्ने दोषा उच्छिन्ना भवन्तीति मिथ्याज्ञानमुच्छेतव्यम् , तदुच्छित्तये च तत्त्वज्ञानमुपायः, प्रसिद्धो ह्ययमर्थः समर्थितश्च पूर्व विस्तरत'स्तत्त्वज्ञानं मिथ्याज्ञानस्य बाधकमिति, तस्मान्मिथ्याज्ञानदोषप्रवृ. त्तिजन्मदुःखनिवृत्तिक्रमेणापवर्ग इति । ___ यद्यपि च मिथ्याज्ञानमपि जन्मकार्यमशरीरस्यात्मनो मिथ्याज्ञानानुपत्तः, इतरेतरकार्यकारणभावेन बीजाङ्कुरवदनादिप्रबन्धप्रवृत्तेन प्रवर्तमाना मिथ्याज्ञानादयो भावाः संसार इत्युच्यते, तथा ऽपि तत्कारणोच्छेदचिन्तायां कुतः प्रभृति च्छेद उपक्रम्यतामिति विचार्यमाणे विशेषनियमाभावाद्यतः कुतश्चिदिति प्राप्ते मिथ्याज्ञानस्य प्रतिकूलमुच्छेदकारणं तत्त्वज्ञानमुपलब्धमिति विशेषे प्रमाणभांवात्तदुच्छेद एवापक्रम्यते, अत एव मिथ्याज्ञानमूलः संसार उच्यते तस्मिअच्छिन्ने तदुच्छेदसम्भवान्न ततःप्रभृति संसारः प्रवृत्त(रप्रवृत्तिः?)इति निपुणमये तिभिरपि निर्धारयितुं शक्यमनादित्वात्तस्येति, तदेवं तत्त्वज्ञानान्मिथ्याज्ञानापाये तत्कार्यदोषापायः दोषापाये प्रवृत्त्यपायः प्रवृत्त्यपाये जन्मापायः जन्मापाये दु:खापायः स एवापवर्ग इति, तदिदमुक्त मुत्तरोत्तरापाये तदनन्तराभावादिति' ।
___ मोक्षासम्भवपूर्वपक्षः। आह विदितो ऽयं सूत्रार्थः किन्त्वघटमानमनोरथविडम्बनामात्रमिदमली. कश्रद्दधानताप्रकटनं वा, दुरधिगमस्तु सङ्कटो मोक्षमार्गः।
साध्यस्त्रिवर्ग एवैष धर्मकामार्थलक्षणः । चतुर्थः पुरुषार्थस्तु कथास्वेव विराजते ।। यदा प्रियवियोगादि भवत्युद्वेगकारणम् ।
तदा मोक्षकथाः कामं क्रियन्तां शोकशान्तये ॥ (१) तदन्तरापायादपवर्न इति सूत्रपाठान्तरम् ।