________________
अपवर्गनिरूपणम् । सचेतनश्चिता योगात्तदभावादचेतनः। चितिर्नामार्थविज्ञानं कादाचित्कं तु तस्य तत् ।। नार्थसंवेदनादन्यच्चैतन्यं नाम विद्यते । तच्च सामग्रयधीनत्वात्कथं मोक्षे भविष्यति ।। जाग्रतः स्वप्नवृत्तेवो सुषुप्तस्यापि वा ऽऽत्मनः। ज्ञानमुत्पद्यते ऽन्या तु चतुर्थी नास्ति तद्दशा ॥ जाप्रहशायां स्वप्ने च बुद्धेः प्रत्यात्मवेद्यता। सुखं सुप्तो ऽहमद्येति पश्चात्प्रत्यवमर्शनात् ॥ तदा त्वचेत्यमाना ऽपि सुषुप्ते धी: प्रकल्प्यते । तुर्यावस्था तु संवित्तिशून्यस्य स्थितिरात्मनः ।। तुर्यावस्थातिगं रूपं यदाहुः के चिदात्मनः । प्रमाणागोचरत्वेन कल्पनामात्रमेव तत् ।। संवित्प्रसवसामर्थ्य सामग्रीसन्निधानतः।
यदि नामात्मनो ऽस्त्यस्य तावता न चिदात्मता॥ — यदि तु दर्शनशक्तियोग्यतामात्रमेव पुंसश्चैतन्यमुच्यते तर्हि तथाविधस्य तस्य कैवल्यस्यास्माकीनमोक्षसहक्षत्वमेव योग्यतामात्रसंभवे, ऽपि दृश्येन्द्रियसं. योगादेस्सामग्रया वैकल्यावस्थायामात्मनो द्रष्टुत्वासंभवाद् दर्शनशून्यस्य चान्य. स्य चैतन्यस्य निरस्तत्वादिति ।
निर्वाणादिपदाख्येयमपवर्ग तु सौगताः ।।
सन्तत्युच्छेदमिच्छन्ति(१)स्वच्छों वा ज्ञानसन्ततिम(२)॥ - एतद् द्वितयमप्युक्तं पूर्वमेव तद् ध्वस्तं च, ज्ञानसन्ततिनित्यश्चात्मा स. मर्थितः।
सन्तत्युच्छेदपक्षस्तु नैयायिकमतादपि । शोच्यो यत्राश्मकल्पो ऽपि न कश्चिदवशिष्यते ।। अर्हत्पक्षे ऽपि यद्रूपमन्यसापेक्षमात्मनः । न केवलस्य तद्र्पमित्यस्मन्मततुल्यता ॥ विकारित्वं तु जीवानामत्यन्तमसमजसम् ।
शब्दपुद्गलवचैतत्प्रत्याख्येयमसम्भवात् ॥ तस्मान वेदान्तविदो विदन्ति मोक्षं न सांख्या न च सौगताद्याः । इत्यक्षपादाभिहितो ऽपवर्गः श्रेयास्तदत्यन्तविमोक्ष एव ॥ (१) सन्तत्युच्छेद-ज्ञानसन्तत्युच्छेदं निर्वाणपदाख्येयमपवर्ग योगाचाराः ।
(२) स्वच्छा ज्ञानसन्ततिं निर्वाणपदाख्येयमपवर्ग माध्यमिकाः । तदुई षड्दनिसमुच्ये-मन्यन्ते व मध्यमाः कृतधियः स्वच्छां परं संविदमिति ।