________________
न्यायमअर्याम् यते न दुःखविषयो द्वेषः विरक्तस्य चास्य मोक्षं प्रति यत्नो भवति न दुःखं द्विषत इति समानो न्यायः। ___यत्तूक्तं-निरानन्दो मोक्षः प्रेक्षावतां प्रयत्नविषयो न भवती-ति, तदपि न साम्प्रतम् , प्रयोजनानुसारेण प्रमाणव्यवस्थाऽनुपपत्तेः, न हि प्रयोजनानुव. ति प्रमाणं भवितुमर्हति, यदि निरानन्दो मोक्ष: प्रेक्षावतां न रुचितः कामं मा भून्न स्वप्रमाणकमानन्दं तत्र कल्पयितुं शक्नुमः, न च सर्वात्मना साधूनामन. भिमत एव तथाविधो मोक्षः, न च तदवाप्तये न प्रयतन्ते, ते ह्येवं विवेचयन्ति दुःखसंस्पर्शे शाश्वतिकसखसम्भोगासम्भवाद् दुःखस्य चावश्यहातव्यत्वाद्विवे. कहानस्य चाशक्यत्वाद्विषमधुनी इहैकत्र पात्रे पतिते उभे अपि सुखदुःखे त्यज्येतामिति, अतश्च संसारान्मोक्षः श्रेयान्यत्रायमियानतिदुःखप्रबन्धोऽवलुप्यते वरमियतः कादाचित्की सुखकणिका त्यक्ता न तस्याः कृते दुःखभार इया. नूढ इति, तस्मान्न सुखोपभोगात्मको मोक्ष इति ।
सुखसत्तासमर्थनम् । अन्यस्त्वाह-तिष्ठतु तावन्माक्षः संसारे ऽपि न सुखं नाम किं चिदस्तीति सर्व एवायं दुःखाभावमात्रे सुखव्यवहारः, तथा हि
तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सरभि क्षुधातः सम्छालीन्कवलयति सम्पाकवलितान् । प्रदीप्ते रागाग्नौ घननिबिडमाश्लिष्यति वधूं
प्रतीकारे व्याधेः सुखमिति विपर्यस्यति जनः । (-इति ? ) उच्यते-तदिदमतीव कृतकवैराग्यप्रकटनकोरुकुचीकूर्चकौशलमानन्दात्मनः प्रतिप्राणिसंवेद्यस्य निह्नोतुमशक्यत्वादनिवृत्तेऽपि दुःखे कचित्सुखसम्वेदनान्न दुःखाभावः सुखं निरभिलाषस्याप्यतर्कितोपनतसुखसाधनविषयसम्पके सति सुखसम्वेदनदर्शनादभिलाषात्मकदुःखाभावः सुखमित्यपि न मनोज्ञम् , यस्तु दुःखाभावे क्वचिस्सुखमित्यपि व्यपदेशः प्रशान्तरोगाणामिव पूर्वदर्शितः स भाक्त इति न तावता स्वसम्वेदनसाक्षिकसुखापह्नवः कर्तुमुचितः, मोक्षे तु नित्यसुखमसंभवत्प्रमाणं नाभ्युपगम्यते ।
अपिच मोक्षे सुखमस्ति न वेति विचार एष न प्रामाणिकजनोचितः, स्वरूपेण व्यवस्थानमात्मनो मोक्ष इति मोक्षविदः, तत्रात्मम्वरूपमेव कीगिति चिन्त्यं न पृथङ मोक्षस्वरूपम्, आत्मनश्च सुखदुःखबुद्ध्यादय आगन्तुका गुणा न महत्त्ववत्सांसिद्धिका इति निर्णीतमेतदात्मलक्षणे सुखादिकार्येण चा. त्मनो ऽनुमानादिति, अत एव कपिलकथितचितिशक्तिस्वभावत्वमपि न चुक्त मात्मनः।