________________
अपवर्गनिरूपणम् ।
७९
खलु व्याख्यानस्य भगवतः काचिदभूमिरस्ति दृष्टाश्च दुःखोपशमे सुखशब्दप्रयोगाः ।
चिरज्वरशिरोर्थ्यादिव्याधिदुःखेन खेदिताः । सुखिनो वयमद्येति तदपाये ( १ ) प्रयुञ्जते ।।
यदि चानन्दमिति वचनान्नित्यं सुखमात्मन इष्यते, तर्हि ब्रह्मेति वचनाद् व्यापकत्वमिव विज्ञानमिति वचनाज् ज्ञानमपि नित्यमस्याभ्युपगन्तव्यमतश्च सुखवज् ज्ञानस्यापि नित्यत्वात्संसारेऽपि नित्यसुखोपलब्धिः स्यात्ततश्च धर्माधर्मफलाभ्यां सुखदुःखाभ्यामस्य नित्यस्य सुखस्य साहचर्यमनुभूयेत । अपि च
सुखवज् ज्ञानवच्चास्य कामं देहेन्द्रियाद्यपि । नित्यं प्रकल्प्यतामित्थं मोक्षो रम्यतरो भवेत् ॥
अथ कार्य सुखज्ञानं हेतुरस्य चिन्तनीयो यत उत्पद्यते इति वाच्यम्, यो - गसमाधिज इति चेत्तस्य कार्यत्वात्स्वकार्य सुखसंवेदनावसानत्वान्न शाश्वतिकत्वं स्यात्, अक्षयश्च धर्मस्य निरनुमानको न हि योगसमाधिजो धर्मो न क्षीयते इत्यत्र किंचिदनुमानमस्ति, विपर्यये तु प्रसिद्धमेवानुमानं सर्वस्य कृतकस्यानित्यत्वदर्शनादिति, क्षीणे त्वधर्मे तत्कार्याज्ञानाभावात्सदपि सुखमनुपलभ्यमानमसतो न विशिष्यते, स्वप्रकाशं तत्सुखमिति चेत्संसारे ऽपि तदुपलब्धिप्रसङ्गः, शरीरादिसम्बन्धः प्रतिबन्धहेतुरिति चेन्न, शरीरादीनामुपभोगार्थत्वाद्भोगप्रतिबन्धं विदधतीति न साध्वी कल्पना, अविद्यावरणात्संसारे स्वप्रकाश सुखानुपलम्भ इति चेन्न, प्रकाशस्य तुच्छेनावरीतुमशक्यत्वात्, नहि प्रकाशरूपं पारमार्थिकमात्मनः सुखं तद्विपरीततुच्छ स्वभावेयमविरलगवलमलीम बलाहकव्यूहपिहितरविबिम्बं तदपि न रजनीसदृशं दिनमिति सहसा मोहिमा,
मेघा अपि वेरन्ये स्वरूपेण च वास्तवाः । तत्त्वान्यत्वाद्यचिन्त्या तु नाविद्यावरणक्षमा ॥
तस्मान्न नित्यानन्दत्वमात्मनः सुवचनम् ।
अपि च मो नित्यसुखस्वभावे तद्रागेण प्रयतमानो मुमुक्षुर्न मोक्षमधिगच्छेत्, न हि रागिणां मोक्षोऽस्तीति मोक्षविदः, दुःखनिवृत्यात्मकेऽपि मोक्षे दुःखद्वेषात्प्रयतमानस्य समानो दोष इति चेन्न, मुमुक्षोद्वेषाभावात् । रागद्वेषौ हि संसारकारणमिति च जानाति मुमुक्षुः द्वेष्टि च दुःखमिति कथमिदं सङ्गच्छते । सुखेऽप्यस्य रागो नास्त्येवेति चेन्न, स्वर्गनिर्विशेषेऽपवर्गे स्वर्गवद्रागस्य सम्भाव्यमानत्वात् दुःखेन तु निर्विरणस्य मुमुक्षोर्वैराग्यं जा
( १ ) तदपाये - दु:खोपाये !
"