________________
न्यायमअर्याम् हति, को हि नाम शिलाशकलकल्प(१)मपगतसकलसुखसंवेदनसम्पदमात्मान. मुपपादयितुं यतेत, सोपाधिसावधिकपरिमितानन्दनिःष्पन्दात्स्वर्गादप्यधिकमनवधिकनिरतिशयनैसर्गिकानन्दसुन्दरमपरिम्लानतत्सम्वेदनसामर्थ्य चतुर्थ पुरुषार्थमाचक्षते विचक्षणाः, यदि तु जडः पाषाणनिर्विशेष एव तस्यामवस्थायामात्मा भवेत्तत्कृतमपवर्गेण संसार एव वरमवस्था(नं ?) यत्र तावदन्तरान्त. राऽपि दुःखकलुषितमपि स्वल्पमपिः सुखमुपभुज्यते, चिन्त्यतां तावदिदं किमल्पसुखानुभवो भद्रक उत सर्वसुखोच्छेद एव, तस्मानित्यसुखमात्मनो महत्त्ववद. स्तीत्यागमप्रामाण्यादुपगम्यताम् , तच्च संसारदशायामविद्यावरणवशेन नानुभूयते तत्त्वज्ञानाभ्यासभावनाभिभूतनिरन्तराविद्यावरणस्त्वात्मा तस्यामवस्थायां तदनुभवतीति।
वेदान्त्याभिमतमोक्षस्वरूपखण्डनम् । तदिदमनुपपन्नम् , आत्मनो नित्यसुखसत्तायां प्रमाणाभावात् , प्रत्यक्ष तावदस्मदादीनामन्येषां वा केषां चिदस्मिन्नर्थे न प्रभवतीति केयं कथा, अनु. मानमपि न सम्भवति लिङ्गलेशानवलोकनादिति ।
ननूक्तमेवानुमानमपवर्गाय यः प्रेक्षावतां प्रयत्नः सुखसिद्धये हि बुद्धिमन्तो यतन्ते नाश्मकल्पमात्मानं कर्तुमिति तदयमिष्टाधिगमार्थों मुमुक्षोः प्रयत्नः प्रे. क्षापूर्वकारिप्रयत्नत्वात् कृष्यादिप्रयत्नवदिति।
नानिष्टोपरमार्थत्वादनिष्टस्यापि शान्तये ।
सन्तः प्रयतमाना हि दृश्यन्ते व्याधिखेदिताः । अतिदुर्वहश्चायं संसारदुःखभार इति तदुपशमाय व्यवस्यन्तः सन्तो न निष्प्रयोजनप्रयत्ना भवन्तीत्यनैकान्तिको हेतुः ।
अथागमादवगम्यते विभुत्वेनेव नित्येन सुखेनाविनाकृत आत्मेति, तथा च पठ्यते विज्ञानमानन्दं ब्रह्मेति, स्यादेतदेवं यद्येतदेव केवलमागमवचनमश्रोष्यत वचनान्तरमपि तु श्रूयते 'न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशत' इति ।
ननु भवत्पठितमागमवचनमन्यथा ऽपि व्याख्यातुं शक्यते सशरीरस्येति प्रक्रमात्सांसारिके सुखदुःखे अनुकूलेतरविषयोपलम्भसम्भवे तदानीमशरीर. मात्मानं न स्पृशत इत्यर्थः, हन्त तहित् वदधीतमपि वेदवचनमानन्दं ब्रह्मेति संसारदुःखपरिहारक्रमे प्रकरणादेव तद्दुःखापायविषयं व्याख्यास्यते न
(१) शिलायाकलकल्पम्-शिलाखण्डादीषदून, शिलाखण्डसदृशं निःस्सुखं निखं चेति यावत् ।