________________
अपवर्गनिरूपणम् । तार्किकाभिमतापवर्गनिरूपणम् । एवं शरीरादौ दुःखपर्यन्ते हेये प्रमेये निर्णीते यदर्थमेतदुपदेशो यत्परमुपादेयं प्रमेयं यदर्थः शास्त्रारम्भस्तमपवर्ग लक्षयितुमाह
तदत्यन्तविमोक्षोऽपवर्गः ॥ (गो० १।१।२२ ) तदिति प्रक्रान्तस्य दुःखस्यावमर्शः, न च मुख्यमेव दुःखं बाधनास्वभाव. मवमृश्यते किन्तु तत्साधनं तदनुषक्तं च सवमेव, तेन दुःखेन वियोगोऽपवर्ग:, अस्ति प्रलयवेलायामात्मनो दुःखवियोगः स त्वपवर्गो न भवति सर्गसमये पु. नरक्षीणकर्माशयानुरूपशरीरादिसम्बन्धे सति दुःखसम्भवादतस्तद्यावृत्त्यर्थमत्य. न्तग्रहणम् , आत्यन्तिकी दुःखव्यावृत्तिरपवर्गों न सावधिका, द्विविधदुःखा. वमर्शिना सर्वनाम्ना सर्वेषामात्मगुणानां दुःखवदवमर्शादत्यन्तग्रहणेन च सर्वा. त्पना तद्वियोगाभिधानान्नवानामात्मगुणानां बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्मा• धर्मसंस्काराणां निर्मूलोच्छेदोऽपवर्ग इत्युक्तं भवति ।
यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः । तावदात्यन्तिकी दुःखव्यावृत्तिनोवकल्पते ।। धर्माधर्मनिमित्तो हि सम्भवः सुखदुःखयोः । मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः ।। तदुच्छेदे तु तत्कार्यशरीराद्यनुपप्लवात् । । नात्मनः सुखदुःखे स्त इत्यसो मुक्त उच्यते । इच्छाद्वेषप्रयत्नादि भोगायतनबन्धनम् । उच्छिन्नभोगायतनो नात्मा तैरपि युज्यते ।। प्राणस्य क्षुत्पिपासे द्वे लोभमोहौ च चेतसः ।
शीतातपौ शरीरस्य षडूमिरहितः शिवः ।। तदेवं नवानामात्मगुणानां निर्मूलोच्छेदोऽपवर्ग इति यदुच्यते तदेवेदमुक्त भवति तदत्यन्तवियोगोऽपवर्ग इति ।
ननु तस्यामवस्थायां कीहगात्माऽवशिष्यते । स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ।। ऊर्मिषट्कातिगं रूपं तदस्याहुर्मनीषिणः । संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम् ।।
वेदान्त्यभिमतापवर्गस्वरूपनिरूपणम् । तत्र वेदान्तवादिन आहुः-नायमीहशो मोक्षः प्रेक्षावतां प्रयत्नभूमिर्भवितुम