________________
न्यायमअयाम् :: ननु च पूर्वसूत्राख्यातेन फलग्रहणेनैव दुःखस्योपदिष्टत्वात्किमर्थं पुनरुपदेशः ? सुखप्रत्याख्यानार्थ इति चेन्न, पूर्वोपरविरोधात्सकलप्राणभृदनुभवसाक्षिकत्वेन च सुखस्य प्रत्याख्यातुमशक्यत्वात्, तत्प्रत्याख्याने च विवक्षिते किमर्थं प्रमेयसूत्रे फलोपादानम् , फले खलु सुखदुःखे इति व्याख्यातं ततश्च सुखप्रत्याख्याने दु:खमेवावशिष्यते तच्चानेन दुःखशब्देनैव निर्दिष्टमिति किं फलग्रहणेन । उच्यते-न सुखलेशस्य संसारे जन्तुभिरन्तरान्तराऽनुभूयमानस्य प्रत्याख्यानाय दुःखग्रहणं सर्वत्र तथात्वभावनोपदेशाथै सन्नपि: सुखलवो दुःखमेवेति भावयितव्यः तत्सा. धनमपि सवै दुःखमेवेति मन्तव्यम् ।
न तद्यवसितं पुंसां तत्कम न तद्वचः ।
न तद्भोग्यं समस्तीह यन्न दुःखाय जायते ॥ तदित्थं दुःखमुत्कृष्टं तिरश्चां, मध्यमं मनुष्याणां, हीनं देवानां, हीनतरं वीत. रागाणामित्यागमविदः, वीतरागाणां दुःखतानवं युक्तितोऽप्यवगम्यते दुःखस्य रागनिबन्धनत्वात् ।
तत्त्वतश्चिन्त्यमानं हि सर्व दुःख विवेकिनः । विषसम्पृक्तमधुवत्सव दुःखीभवत्यदः ।। सुखाधिगमलोभेन यतमानो हि पूरुषः । सहस्रशाखमाप्नोति दुःखमेव तदने ।। एवं सर्वमिदं दुःखमिति भावयतोऽनिशम् । सर्वोपपत्तिस्थानेषु निवेदोऽस्य प्रवर्तते ।। निर्विण्णस्य च वैराग्यं विरक्तस्य च देहिनः ।
क्लेशकर्मप्रहाणादिद्वारो निःश्रेयसोदयः ।। नम्वेवं तहि फलग्रहणं न कर्तव्यं दुःखपदेनैव गतार्थत्वादित्युक्तम्, मैवं त. स्यान्यप्रयोजनत्वात् , प्रवृत्तिदोषजनितत्वेन हि फलमनुचिन्तितवतस्तत्कारणयोरनुकूलप्रतिकूलयोरस्य रागद्वेषौ मा भूताम् , अभ्यावृत्त्या च ससाधनस्य फलस्य हानोपादानस्रोतसोह्यमानस्तत्रात्यन्ताय निविद्यतामिति फलग्रहणम् , त. देवमन्यथा फलय निःश्रेयसोपयोगित्वमन्यथा तु फलत्वे सत्यपि दुःखस्येति ।
दीर्घस्य दुःखस्यानिमित्तभूतं सुखं च दुःखात्मकमेव सर्वम् । मुमुक्षुणा हेयतया विचिन्त्यं देहादिदुःखान्तमिदं प्रमेयम् ।। इति निपुणमतियों दुःखमेवेति सर्व परिहरति शरीरे क्लेशकर्मादिजातम् । अजमजरमतत्त्वं चिन्तयन्नात्मतत्त्वं
गतभयमपवर्ग शाश्वतं सोऽभ्युपति ।। इति श्रीभट्टजयन्तस्य कृतौ श्रीन्यायमअर्यामष्टममाह्निकम् ।। .