________________
फललक्षणम् ।
दोग्धि पचतीति समनन्तरमुत्पद्यमानं दृश्यते, विधिफलानां तु नैष नियम इति शब्दपरीक्षायां चित्राक्षेपपरिहारावसरे निरूपितमेतत् , विधिफलमपि च किं चन चोदनावचनपोलोचनया सद्य इति निश्चीयते वृष्टिरिव कारीर्याः, किश्चिदै. हिकफलमपि कर्म वस्तुबलात्कालान्तरापेक्षं भवति पुत्रेष्ट्यादि, न हि सहसैव निधिलाभवत्पुत्रलाभः सम्भवति गर्भसम्भवहेतुभूतभार्यापरीरम्भादिक्रमांपेक्षत्वात् , ज्योतिष्टोमादि तु स्वर्गफलं कर्मफलस्वरूपमहिम्नैव पारलौकिकफलमवतिष्ठते स्वर्गो हि निरतिशया प्रीतिस्तदन्यथानुपपत्तिपरिकल्पितः कनकगिरिशिखरादिर्वा देशः उभयथाऽपि नैतदेहोपभोग्यतां प्रतिपद्यते, अनियतफलं तु चित्रादि कैश्चिदुक्तं तच्च युक्तमयुक्तं वेति तत्रैव परीक्षितम् , निषिद्धस्य तु कर्मणः सर्व. स्यैव प्रायेण परलोक एव फलं, परदाराभिमर्षणादौ हि क्रियाफलं सुरतसुखादि सद्यः फलं, निषेधविधिफलं तु नरकपतनं पारलौकिकं स्वर्गवन्नरकस्यापि निरतिशयदुःखात्मनस्तदन्यथाऽनुपपत्तिकल्पितदेश(स्वभाव)स्य वा एतच्छरीरानुपभोग. योग्यत्वात् , तीव्रसंयोगनिवृत्तकम विहितमितरद्वा प्रत्यासन्नविपाकमिहैव भवति नन्दीश्वरनहुषयोरिवेत्यागमविदः, चौरब्रह्मध्नादयश्च के चित्प्रत्यासन्न प्रत्यवायाः प्रायेण दृश्यन्ते एवेत्येवमेष विचित्रः कर्मणां विपाकः ।
यदपि चोच्यते-कर्मकाले फलं नास्ति फलकाले कर्म नास्ति कालान्तरे च फलस्यान्यत्प्रत्यक्षं कारणमुपलभ्यते सेवादिकम्-इति, तदपि पूर्व परिहृतम् , कर्मणां विनाशेऽपि तज्जनितस्यात्मसंस्कारस्य धर्माधर्मशब्दवाच्यस्य भावात् , दृष्टस्य च सेवादेः कारणस्य व्यभिचारादकल्पनाया अवश्यंभावित्वात् । 'धर्मादेरात्मनि फलसमवायात्फलस्य च पुत्रपश्वादेरन्यसमवेतत्वाद्भिन्नाधिकरणत्वं कर्मफलयोरि'त्यपि न चोद्यम् , मुख्यस्य सुखदुःखात्मनः फलस्य भिन्नाश्रयत्वानुपपत्तेः, सुखदुःखे ह्यात्मनि वर्तेते धर्माधमौ च तत्स्थावेवेति ।
दुष्टेनैव सुखस्य कारणमतस्तद्धेतुरागेण किं. दुःखस्यापि न तन्निबन्धनमिति द्वेषस्तदर्थेषु कः । तस्मात्कर्मनिमित्तकं फलमिति ध्यायन्न कुर्यात्कृती सङ्गं कर्मणि येन दुस्तरमसौ संसारमापद्यते ॥
दुःखलक्षणम् । बाधनालक्षणं दुःखम् ॥ (गो० १११।२१) बाधना पीडनं सन्तापनं सा लक्षणमस्येति बाधनालक्षणं दुःखम् , तत्र मुख्य दुःखे लक्ष्ये लक्षणशब्दो यथाश्रुत एव बाधनयैव हि दुःखस्वरूपं लक्ष्यते बाधयति पीडयतीति, गौणे तु दुःखे शरीरादौ लक्ष्ये बाधनानुषक्तमिति व्या. ख्येयम् ।