________________
७४
न्यायमअाम् स्कारपरिपाकानुरूपप्रसरदीश्वरेच्छाप्रेर्यमाणपरमाणुक्रियानुपूर्वीनिवर्त्यमानद्वचणुकादिकार्यक्रमेण शरीराद्यवयविनिर्वृत्तिरिति स्थितम् । ___ एतद्विपरीतानि तु मतान्तराणि प्रमाणविरुद्धानि, तथा हि नित्यमेव शरी. रादि अनुत्पत्तिधर्मकमिति प्रत्यक्षविरुद्धम् , पृथिव्यादेरप्यवयवसन्निवेशविशिष्टतया कार्यत्वादितीश्वरसिद्धौ निर्णीतम् , आकस्मिकत्वमपि शरीरादेः कार्यस्य न युक्तम् , कारणनियमोपलम्भादनिमित्तायाश्च भावोत्पत्तेरनुत्पत्तः, अभावादपि भावोत्पत्तिस्ताहगेवेति, गुणात्मकप्रधानविकारमहदहंकारादिकारणकत्वमषि कार्यस्य पृथिव्यादेः प्रागेव प्रपञ्चतः प्रतिषिद्धम् , अनारब्धावयविरूपकार्याः परमाएंव एवैते सञ्चयविशिष्टाः सन्तो लोकयात्रां वहन्तीत्येतदपि न समीचीनं सञ्चयस्य भेदाभेदविकल्पाभ्यामनुपपद्यमानत्वात्परमाणनां चातिसौदम्यादप्रत्यक्ष. त्वात् , पौद्गलिककार्यपक्षेऽपि पर्यायान्तरेण परमाणनां कथनमप्रमाणकत्वं वा, (अप्रामाणिकम् (?)) शब्दविवर्तत्वं तदनुगमाग्रहणादनुपपन्नम् , परमात्मोपा. दानत्वमपि न सम्भवति तस्यैव निष्प्रमाणकत्वात् , न च न कदाचिदनीदृशं जगदिति पादप्रसारिकामात्रं कर्तुमुचितं सर्गप्रबन्धप्रलयप्रबन्धस्य समर्थितत्वादिति।
अतश्च पक्षान्तरदुर्बलत्वाद्यथोदितः सिध्यति भूतवर्गः। तं यस्तु पश्यन्नपि निह्नवीत तस्मै नमः पण्डितशेखराय ॥ . अनादौ संसारे स्थितमिदमहो मूढमनसां जनित्वा जन्तूनां मरणमथ मृत्वाऽपि जननम् । इयं सा दुःखानां सरणिरिति सञ्चिन्त्य कृतिना विधातव्यं चेतो जननमरणोच्छेदिनि पदे ।।
फललक्षणम् । प्रवृत्तिदोषजनितोऽर्थः फलम् ॥ (गो० १।१।२०)
प्रवृत्तिर्दोषाश्च व्याख्याताः, तज्जनितोऽर्थः फलमित्युच्यते, अर्थग्रहणं गौणमुख्यभेदप्रदर्शनार्थम् , सुखदुःखे मुख्यं फलं तत्साधनं तु शरीरेन्द्रियविषयादि गौणम् , सव हीदं प्रवृत्तिदोषाक्षिप्तं फलमित्युक्तम् , तदिदमनादिना प्रबन्धेन प्रव. तमानं फलं पुनरुपयुज्यते पुनस्त्यज्यत इति महतः खेदस्य हेतुरिति भाव्यमानं . निर्वेदवैराग्यादिमागणापवर्गोपयोगिता प्रतिपद्यते ।
आत्तमात्तं विजहतरत्यक्तं त्यक्तं च गृह्णतः ।
पुंसः फलपटीयन्त्रमहो कष्टः परिश्रमः ।। तत्पुनः फलं कर्मणा किं सद्य एव सम्पद्यते कालान्तरेण वा ? उच्यते-द्वि. विधं कर्म विहितं निषिद्धं च, तत्र विधिफलानां कालनियमो नास्ति, क्रियाफलं