________________
परमाणुसाधनम् । पयोरनन्तावयवयोगित्वाविशेषेण तुल्यपरिमाणत्वप्रसङ्गात् , तस्मात्परमाण्वन न्ततैव युक्तिमती।
ईश्वरसाधनम् । ___ त इमे परिमाणवश्चेतनेच्छाप्रेरणमन्तरेण विशिष्टक्रमकमितरेतरसंघटनमलभमाना: कार्यसिद्धये न पर्याप्नुयुरचेतनत्वादिति चेतन एषामधिष्ठाता सकलमुवननिर्माणमतिरीश्वरोऽभ्युपगतस्तत्सिद्धये च सकलकुतर्कतिमिरतिरस्कारपूर्वकं पूर्वमेव निरवद्यमनुमानमुपपादितम् , ईश्वरोऽपि नानेकात्मवृत्तिविपाको. न्मुखधर्माधर्मसंस्कारवैचित्र्यमननुरुध्यमानो विचित्रस्य जगतो जन्म निर्मातुम. हतीत्येनदपि दर्शितम् ।
द्वथणुकादिक्रमेण कार्यारम्भनिरूपणम् । ___ न च सकृदेव सतो निवर्त्यमानकार्यपरिमाणानुगुणसंख्याः परमाणव ए. कत्र संयोज्य कार्यमारभन्ते किन्तु द्यणुकांदिक्रमेण, सकृदारम्भे हि कुम्भे भ. ज्यमाने कपालशर्कराकणचूर्णादिक्रममपहाय प्रथममेव परमाण्वन्तता भवेत्स.
संयोगस्य सर्वविभागेन सहसैव विनाशादतश्च कर्परादिक्रमदर्शनं विरुध्येत अ. विनष्टेऽपि घटादौ तन्त्वाद्यवयवाश्रितत्वस्य ग्रहीतुमशक्यत्वात् , परमाणूनां घटस्य च मध्ये कार्यान्तरानारम्भादिति, तस्माद् द्वयणुकादिप्रक्रमेण परमाणवः कार्यमारभन्ते ।
ननु द्वावेव परमाणू प्रथमं संघटते इत्यत्र का युक्तिरुच्यते, बहुत्वसंख्याया महत्त्वपरिमाणकारणत्वदर्शनास्त्रिषु परमाणुषु प्रथमं मिलत्सु तत्कायें बहुत्वसं. ख्यया महत्त्वारम्भात्तत्प्रत्यक्ष प्रसज्येत, न च तत्प्रत्यक्षमतिसूक्ष्मत्वादतो द्वा. भ्यां परमाणुभ्यां द्वयणुकमादावुत्पद्यते, तच्च परमाणुवदप्रत्यक्षमेव महत्त्वानुत्पादात् , द्वयणुकद्वयेन तु कार्यारम्भ इष्यमाणे तदविशेषप्रसङ्गाद् द्वयणुक इव तत्रा. पि महत्त्वोत्पत्तो कारणाभावात् , अतस्त्रिभिद्वर्यणुकैस्त्र्यणुकमारभ्यते, तत्र च बहुत्वसंख्यया महत्त्वमारप्स्यते प्रत्यक्षं च तद्भविष्यति, ततः परं तु क्रमसामान्ये प्रमाणमस्ति लोष्टादिभक्त: सावयवखण्डावयवनिदर्शनम् , क्रमविशेषे तुप्रमाणं नास्तीत्थमारम्भ इति, यत्र वा दर्शनमस्ति तत्र तदस्तु, क्रमविशेषप्रमाणमा. रभ्यारम्भकत्वं तु नेष्यते मूर्तानां समानदेशत्वविरोधात , न हि परमाणवः प्र. थमं कार्यमारभ्य तदनु त एवोत्तरोत्तरकालं कार्याण्यारभन्ते किन्तु यत्परमाणुनिर्वृत्तं काय द्वयणुकं तत्कार्यान्तरस्यारम्भकं तदप्यन्यस्य कार्यस्येत्येवं तावद्यावत्परिपूर्णावयविनिष्पत्तिः, इत्थं च तन्तुभिः पटः क्रियते न तन्त्ववयवैरंशुभिरितरथा ह्युत्तरोत्तरकार्यारम्भेऽपि पूर्वपूर्वकारणानपायान्मूर्तानामेकदेशत्वं स्याद् न प तद् दृश्यते इति यथोक्त एव क्रमः श्रेयान् , तदेवमनेकात्मसमवेतधर्माधर्मसं.