SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ न्यायमअर्याम् त्तिरेव नास्ति का कथा पुनःशब्दार्थस्य, शरीस्य तूत्पत्तिरस्ति न तु पौनःपुन्येन, न हि मृतं शरीरं तदेव पुनरुत्पद्यते, तस्मात्पुनरुत्पत्तिः प्रेत्यभाव इत्यवाचकं सू. त्रम् , उच्यते, पुनःशब्दार्थस्य यत्नत उपदिष्टस्य परिहर्तुमशक्यत्वादात्मनश्च स्था. यिस्वेन क्रियाभ्यावृत्तिसम्भवात्तस्यैव पुन: पुनरुत्पत्तिं ब्रमः, उत्पत्तिवन्मरणमपि, सोऽयमात्मन एव मृत्वा पुनर्जन्म प्रेत्यभाव इति । ननु जन्ममरणे उभे अपि नित्यत्वादात्मनो न संस्त इत्युक्तम्, सत्यं शरी. रादिसंयोगवियोगयास्तु तथाऽभिधानान्न दोषः, मरणमात्मनो भोगायतनदेहेन्द्रियादिवियोग उच्यते जन्म तु तत्सम्बन्धः, ते च ते विपच्यमानकर्माशयानुसारेण देहेन्द्रियादित्यागोपादाने एव मरणजन्मनी क्रियाभ्यावृत्त्या भवन्ती प्रेत्यभाव इत्युच्यते, स एव च संसारः, तदित्थमनुध्यायतः कस्य सचेतसो निर्वेदो नोदी. यात् , तदुक्तम्-- जरावियोगमरणव्याधयस्तावदासताम् । जन्मैव किं न धीरस्य भूयो भूयस्त्रपाकरम् ॥ अथ यैरुत्पद्यमानैदेहेन्द्रियादिभिरात्मनः सम्बन्धस्तेषां कथमुत्पत्तिरित्युक्तं सूत्रकृता, व्यक्ताद्यक्तानामुत्पत्तिः प्रत्यक्षप्रामाण्यादिति, (गो० ५।१।११) व्यक्तादिति कपिलाभ्युपगतत्रिगुणात्मकाव्यक्तरूपकारणनिषेधेन परमाणूनां शरीरादौ कार्य कारणत्वमाह। परमाणुसाधनम् । तथा हि पार्थिवमाप्यं तैससं वायवीयमिति चतुर्विधं कार्य स्वावयवाश्रित. मुपलभ्यते, तत्र यथा घट: सावयवः कपालेष्वाश्रित एवं कपालान्यपि सावय. वत्वात्तदवयवेषु तदवयवा अपि तदवयवान्तरेष्वित्येवं तावद्यावत्परमाणवो नि. रवयवा इति, यत्र यावतः कार्यजातस्य स्वावयवाश्रितस्य प्रत्यक्षेण ग्रहणं तत्र तदेव प्रमाणम् , तदपि हि कार्य स्वावयवत्वात्परिदृश्यमानकार्यवत् , निरवयवे तु तस्य परमाणुत्वमेव परमाणुषु च सावयवत्वस्य च हेतोरसिद्धत्वान्नावयवा. न्तरकल्पना, तेषां हि सावयवत्वे तदवयवाः परमाणवोऽनुमीयन्ते लोष्टस्य प्रवि. भज्यमानस्य भागास्तद्भागानां च भागान्तराणीत्येवं तावद्यावदशक्यभङ्गत्वमदर्श नविषयत्वं च भवति, तद्यत्तयोः परमवयवविभागो न सम्भवति ते परमाणव उच्यन्ते तेष्वपि हि विभज्यमानेषु तदवयवाः परमाणवो भवेयुन ते तदेवमुत्पत्तिविनाशक्रमस्येदृशो दर्शनात्सन्ति परमाणवः ।। अत्र हि त्रयी गतिरस्य घटादेः कार्यस्य निरवयवत्वमेव वा ऽवयवानन्त्यं वा परमाएवन्तता वा, तत्र निरवयवत्वमनुपपन्नमवयवानां पटे तन्तनां घटे च कपालानां प्रत्यक्षमुपलम्भात् , अनन्तावयवयोगित्वमपि न युक्तं मेरुसर्ष.
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy