________________
दोषपरीक्षा।
४७ पञ्चप्रकारो रागपक्षः , स्त्रीसंभोगेच्छा कामः , यदन्यस्मै निवेद्यमानमपि वस्तु धनवन्न क्षीयते तदपरित्यागेच्छा मत्सरः , अनात्मीयवस्त्वादित्सा स्पृहा, पुन. र्भवप्रतिसन्धानहेतुभूतेच्छा तृष्णा , निषिद्धद्रव्यग्रहणेच्छा लोभ इत्यभिलाषप्र. कारभेदादागपक्ष एवायम् , द्वेषपक्षोऽपि पञ्चविधः, क्रोधेासूयाद्रोहोऽमर्ष इति, अतिभ्वादिविकारहेतुः प्रज्वलनात्मकः क्रोधः, साधारणेऽपि वस्तुनि प. रस्य दर्शनाद्यसहनमीा , परगुणेष्वक्षमाऽसूया, परापकारो द्रोहः, अदर्शितमुखादिविकारः परं प्रति मन्युरमर्ष इत्यसहनप्रकारभेदादेव द्वेषपक्षः, मोहपक्षस्तु चतुर्विधो मिथ्याज्ञानं विचिकित्सा मानः प्रमाद इति, अतस्मिंस्तदिति ज्ञानं मिथ्याज्ञानम् , किं खिदिति विमों विचिकित्सा, असद्गुणाध्यारोपेण स्वो. स्कर्षबुद्धिमानः, कियदेतदित्यवज्ञया कर्तव्याकरणं प्रमादः, स एव मद इत्याख्यायते, सोऽयं तत्त्वापरिज्ञानप्रकारभेदान्मोहपक्षः, एवं त्रय एवैते दोषाः, शो. कह| तु सुखदुःखे उच्यते न दोषान्तरम् , तेषां तु मोहः पापतमः इतरयोस्तु तद्धीनात्मलाभत्वात् , मूढस्य हि रागद्वेषौ भवतो मिथ्यासङ्कल्पादुत्पद्यमानयोरनुभवात्कुसङ्कल्पश्च मिथ्याज्ञानप्रवृत्तिरेव, मिथ्याज्ञानस्यैव भगवतः सर्वमिदं विलसितं योऽयमनेकप्रकारः संसारदुःखभारः, यद्येवं न तर्हि मोहस्य दोषत्वं दोषकारणत्वादिति न लक्षणानपायात् ,सत्यपि दोषान्तरहेतुत्वे स्वयमपि पुरुष. प्रवृत्तिप्रयोजकत्वलक्षणयोगाद्रागवद् दोषत्वं न मोहो विजहाति ।
दोषशमनोपायः । त इमे दोषाः संसारहेतव इति यत्नतः शमनीयाः, कथं पुनरमी शमयितुं शक्याः? उक्तमत्र नाकस्मिकाःन नित्याः नाज्ञातशमनोपायान चाशक्यप्रतिक्रिया इति, विस्तरतश्चैतदपवर्गाहिके परीक्षिष्यते, मिथ्याज्ञाननिमित्ताः खस्वेते दोषास्तस्मिन्सम्यग्ज्ञानप्रभावनिहते हेतोरभावान्न भवन्त्येवेति ।
नन्वेवं प्रसवविनाशकारणयोरेकत्वादेक एव दोषो भवेदिति त्रित्वं नोपपद्यते, न, अनुभवसिद्धभेदत्वात्,अनुभूयते हि रागद्वेषमोहानामितरेतरविभक्तं स्वरूपम् , कारणैकत्वं तु न प्रयोजकमेकस्मादेव ज्वलनसंयोगादुत्पद्यमानानां विनश्यतां च पार्थिवपदार्थवृत्तीनां गन्धरसरूपस्पर्शानां नानात्वदर्शनात् , अतः सूक्तं दोषाणां त्रैराश्यमिति ।
संसारकाराभवनप्रवेशमार्गास्त एते त्रय एव दोषाः । एषां प्रहाणोद्यममाधानो न जन्ममृत्यू पुनरभ्युपैति ।।
- प्रेत्य भावलक्षणम् ।
पुनरुत्पत्तिः प्रेत्यभावः ( गो०१।१।१९) .... कस्येयं पुनरुत्पत्तिरुच्यते आत्मनः शरीरस्य वा, तत्रात्मनो नित्यत्वादुत्प