________________
न्यायमअर्याम् परित्राणपरिचरणरूपा त्रिविधा शरीरेण प्रवृत्तिरितीयमपि दशविधैव, एषा चं स्वर्गसदनद्वारसोपानकल्पा, सेयमुभयतो विंशतिभेदाः प्रवृत्तिः संक्षेपतो द्विधैव विधिनिषेधात्मकतदवगमोपायभेदात्।
विधिनिषेधकारण एव हि सदसत्कर्मावगमः, तत्र विहितानुष्ठानं स्वर्गाय निषिद्धाचरणं नरकायेत्येवं सुखदुःखोपभोगस्थानशरीरेन्द्रियाद्यनभिसम्बन्धनि. बन्धनमेषा प्रवृत्तिर्भवन्ती संसारस्य परमं कारणं भवति , यो ह्ययं देवमनुष्यतिर्यग्भूमिषु शरीरसो यश्च प्रतिविषयं बुद्धिसर्गो यश्चात्मना सह मनसः सं. सर्गः स सर्वः प्रवृत्तरेव परिणामविभवः , प्रवृत्तेश्च सर्वस्याः क्रियात्वाक्षणिकत्वेऽपि तदुपहितो धर्माधर्मशब्दवाच्य आत्मसंस्कारः कर्मफलोपभोगपर्यन्तस्थि. तिरस्त्येव , न च फलमदत्त्वा धर्माधमौ क्षीयेते अन्त्यसुखदुःखसंविद्विरोधिनी हि धर्माधर्मावुदाहरन्ति , न च जगति तथाविधं किमपि कार्यमस्ति वस्तु यन्न धर्माधर्माभ्यामाक्षिप्तसम्भवमिति तदुच्छेदे मुमुक्षणा यत्न आस्थेयः ।
इति वितनुतः पुण्यापुण्यप्रवृत्तिसमुद्भवौ। निगमवदिमौ धर्माधमौ रुचं भवबन्धने । यदि निरवधेर्दुःखस्यान्तं चिकीर्षसि सर्वथा परिहर मनोवाक्कायानां प्रवृत्तिमनर्गलाम् ।।
दोषलक्षणम् । प्रवर्तनालक्षणा दोषाः ॥ (गो० १।१।१८) प्रवर्तना प्रवृत्तिः सा लक्षणमेषामिति प्रवर्तनालक्षणा दोषाः, दोषप्रयुक्तो हि पुरुषः पुण्ये कर्मणि पापे वा प्रवर्तते ।
मनु च प्रत्यात्मवेदनीयदोषाणां स्वरूपमपरोक्षमेतत्किमेतेषां लक्षणतो रूपं निरूप्यते, सत्य, प्रत्यात्मवेदनीयत्वेऽपि यदेषां प्रवर्तनालक्षणत्वमुपदिश्यते तद. नेन रूपेण संसारकारणत्वज्ञापनाथै,धर्माधर्मविहितो हि शरीरादि दुःखाधिष्ठानसम्बन्धः, तद्बीजस्य च कर्मणः कारणं दोषाः कर्मणि पुमांसं प्रवर्तयन्तीति प्रवर्तनालक्षणा इत्युक्ताः , परसन्तानवर्तिनां दोषाणामप्रत्यक्षत्वात्तत्प्रतीतये प्रव. तनालक्षणत्वकथनमिति त्वपव्याख्यानमल्पप्रयोजनत्वादिति ।
दोषभेदाः। तेषां दोषाणां त्रयो राशयो भवन्ति रागो द्वेषो मोह इति, तत्रानुकूलेष्वर्थे । ध्वभिलाषलक्षणो रागः प्रतिकूलेष्वसहलक्षणो द्वेषः वस्तुपरमार्थापरिच्छेद. लक्षणो मिथ्यावसायो मोहः ।
ननु चेासूयालोभमानमदमत्सरादिदोषान्तरसम्भवात्कथं त्रय एव दोषाः, मईयादीनां यथानिर्दिष्टेष्वेवान्तर्भावात् , कामो मत्सरः स्पृहा तृष्णा लोभ इति