SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ प्रवृत्तिपरीक्षा | ४५ " न्द्रियव्यापारसाध्यत्वासम्भवात्करणरहितायाश्च क्रियाभिनिर्वृत्तेर दर्शनादिति, स्मृतिस्तावन्मनोजन्यैवानुमानागमज्ञानं तु परोक्षार्थविषयत्वान्मानसं संशयो Sपि मानसः कश्चिद्वक्ष्यते, प्रतिभा सा मानसी दर्शितैव - 'श्वो मे भ्राता ऽऽगन्ते' ति, स्वप्रज्ञानमवरतेन्द्रियग्रामस्य भवत्कथं न मानसम् तर्कों ऽपि संशयवत्क चिद्विषये मानसो भवत्येव, सुखादीनां तु ज्ञप्तिदुत्पत्तिरपि मनोनिबन्धेनैव, कार्याणामात्मगुणानामुत्पत्तौ प्रत्यासन्नकारणान्तरसम्भवेऽप्यात्ममनःसंयोग · स्यावधृतसामर्थ्यस्यासमवायिकारणत्वादतश्च विषयानुभवजन्ये ऽपि सुखादौ मनस्संयोगः कारणम्, सुखादीनां च बोधस्वरूपत्वं संवेद्यत्वं च निरस्तम्, अतस्तदुपलब्धौ मनस एव कारणता । तदिदं मनः पूर्वकृत शुभाशुभकर्म संस्कारवताऽऽत्मना तद्वशोदेव शरीरदेशे संयोगं प्रतिपद्यते तत्रैव च जीवनव्यवहारः, विपच्यमानकर्माशयसहित आत्ममनः संयोगो जीवनमिति हि वदन्ति, संयुक्तमात्मना मनस्तेषु तेषूपपत्तिस्थानेषु नानाविधभोगसाधनतया संसारकारणं भवति, नित्यत्वादात्ममनसोरसंयोग इति न हि प्रथमो नाम कश्चित्कालः समस्ति श्रादिसर्गस्यापि पूर्वसर्गसापेक्षत्वात् ईश्वरोप कर्मापेक्ष एव विचित्रस्य जगतः स्रष्टेति निर्णीतमेतदिति कृतं विस्तरेण विदधत्सुखादिभोगं वहच्च तरलेन्द्रियाश्वसारथिताम् । बन्धनिमित्तं मन इति मनस्विना यत्नतो हेयम् ॥ मनुचिलक्षणम् । प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः [गो० ९ | १ | १७ ] वागिति वर्णात्मकशब्दकारणसंयोगाद्युच्यते नेन्द्रियमिति व्याख्यातम्, बुद्धिरिति मन इहोच्यते नोपलब्धिः, शरीरं प्रसिद्धं तेषामारम्भो व्यापारस्यैवारम्भ इति सर्वथा तदीयक्रिया प्रवृत्तिरित्युच्यते । प्रवृत्तिभेदाः । साच द्विविधा पुण्या पापिका च, तत्र पापिका वाचा चतुर्विधा, मनसा त्रिवि . धा, शरीरेण त्रिविधैवेति दशविधा, वाचा प्रवृत्तिः तत्रानृतपरुषसूचना सम्बद्धव चनरूपा चतुर्विधा, परद्रोहपरद्रव्याभिलाषानास्तिक्यानुध्यानरूपा त्रिविधा मनसः प्रवृत्तिः, हिंसास्तेयप्रतिषिद्धाचरणरूपा त्रिविधा शरीरेणः प्रवृत्तिः, मैथुनकरणमेवं प्रकार सुखाद्युपलक्षणं सेयं दशविधा प्रवृत्तिरनवरतमभिज्वलतो निरतिशयदुःखवेदनादायिनो नरकानलस्येन्धनम्, पुण्या ऽपि सत्यप्रियहितवचनस्वाध्यायाध्ययनरूपा चतुर्विधा वाचा प्रवृत्तिर्जपयज्ञ हि स्वाध्यायपाठ उपांशुना इन्तः । संकल्पेन वा अस्पृहानुकम्पा परलोकश्रद्धात्मिका त्रिविधा मनसा प्रवृत्तिः, दान
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy