________________
न्यायमञ्जर्याम्
केन्द्रियगम्येषु कचिज्जातिगुणादिषु | विज्ञानयोगपद्यं यन्मनसस्तन्न साधनम् ॥
तत्र विषयादिदोषेण दूरत्वादिना जात्यादेर्युगपद् ग्रहीतुमशक्यत्वात्, यत्तु नानेन्द्रियग्राह्येषु युगपत्सन्निहितेष्वपि गन्धरसरूपादिषु विषयेषु तग्रहणेषु च स्वकार्यानुमितसन्निधानेषु सत्स्वपि यदसंनिधानात् तेषु करणेषु युगपदुलब्धयो न भवन्ति ततो ऽवसीयते नूनं कारणान्तरधर्मेषु करणेषु युगपदुपलब्धयो न भवन्ति ( परीक्ष्यते ) तच्च मन इत्याख्यायते । ननु च -
४४
·
सुगन्धि शीतलां दीर्घामश्नन्तः पूपशष्कुलीम् । कपिल ब्राह्मणास्यन्ति युगपत्पञ्चबुद्धयः ॥
अपि च अयं खल्वध्यापको ऽधीते व्रजति कमण्डलुं धारयति पन्थानं पश्यति शृणोत्यरण्यजान् शब्दान् बिभ्यद्वयाललिङ्गानि बुभुत्सत इति क्रमाग्रहणाद्युगपदेता बुद्धयोऽस्य भवन्तीति, नाशुत्पत्तेः सूच्यग्रभिद्यमानकोकनददल क दम्बकवदतिसूक्ष्मत्वात्कालस्य क्रमस्तत्र न विभाव्यते भवितव्यं तु तेनेति, यदि कारणान्तरनिरपेक्षचक्षुर।दिकरणसाध्या एव रूपादिविषयोपलब्धयस्तदुत्तरकालमुपहतकरणानामपि कथं स्मरणादिरूपस्तदवमर्शः, अतो नूनं नयनादिवत्करान्तरं तद्ग्राह विद्यते ।
अध्यापकं च तत्, व्यापित्वे हि बुद्धीनां यौगपद्यं न निवर्त्तेत, अपि चायं व्यवहार उक्तेऽपि कचिद्वचसि कश्चिदाह--नाहमेतद् श्रवमन्यत्र मे मनोऽभूत्इति, तस्मान्न व्यापकं मनः ।
प्रतिशरीरमेकं च तत्, अनेकत्वे पुनरपि ज्ञानयोगपद्यानपायात् । क्रियावच्च तन्निष्क्रियेणेन्द्रियाणामधिष्ठातुमशक्यत्वात् ।
मूर्त च तत् अमूर्तस्य क्रियानुपपत्तेः, मूर्तत्वे सति नित्यं च निरवयवत्वादनाश्रितत्वाच्च, मूर्तत्वं त्वनित्यतायामप्रयोजकमिति वक्ष्यामः ।
निरवयवं च तत् अवयवकल्पनायां प्रमाणाभावात् ।
वेगवच्च तत् आशुसंञ्चारादाशुसञ्चारमन्तरेणोपलब्धि दैर्घ्यस्य दृष्टस्यानुपपत्तेः । इन्द्रियसंयोगि च तद् द्रव्यत्वाद्, द्रव्यं च तद् वेगादिगुणयोगात्क्रियावचेतनाश्रितत्वाश्च ।
अचेतनं च तत् करणत्वादितरेषां ह्येकत्र शरीरे चेतनद्वयसमावेशाव्यबहारः स्यादिति, तस्मादेवंरूपं मनः ।
सांख्योक्तं तु तस्य रूपमयुक्तमिति तत्प्रक्रियानिषेधादेव व्याख्यातम् । अन्यान्यपि स्मृत्यनुमानागमसंशयप्रतिभास्वप्नोहज्ञानानि अनन्तर सुखदु: + खेच्छाद्वेषादिविषयग्राहीणि च ज्ञानानि मनसो लिङ्गानि सन्त्येव, तेषां बाह्ये.