________________
मनसः परीक्षा ।
४३ र्शनभेदोपलम्भादिः शब्दस्यानित्यतायां न्याय उक्तः स सर्वोपि बुद्धयां प्रयोज - नीयः, अत एव न बुद्धीनामेकप्रमातृवृत्तीनां यौगपद्यं विद्यते शब्दानामिवैकवक्तृप्रयुक्तानाम्, विनश्यदविनश्यद्दशयोस्तु बुद्धयो र शुविनाशत्वेऽपि यौगपद्यमनुभवादुपेयत इत्यलमतिविस्तरेण, बुद्धेरनित्यतायां च प्रायेण सर्ववादिनामविवादः, अन्यथा कथमाह जैमिनिः 'सत्सम्प्रयोगे (१) पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमिति ।
चिररुचिवत्तस्माद् बुद्धिनिसर्गविनश्वरी
भवति जनकः स्वात्मा तस्याः स एव तदाश्रयः । भवमनुभवैस्तापैः पापा तमेव युनक्ति सा (२) व्यसनजननीमेतामस्माच्त्यजेत् परमार्थवित् ॥
मनसो लक्षणम् ।
युगपज् ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ॥ [ गो० १ १ ९६ । ] मनसो यदेव सत्त्वे प्रमाणं तद्गम्यत्वमेवास्य लक्षणं समानेतरजातीयव्यवच्छेदकारित्वात् ।
ननु मनस इन्द्रियत्वात्तद्वर्ग एव पठनं युक्तं किमर्थोऽयं पृथङ् निर्देशः, नधर्मभेदात् भौतिकानीन्द्रियाणि नियतविषयाणि, सगुणानां (३) चैषामिन्द्रियभाव मनस्तु न भौतिकं न नियतविषयं न चास्य सगुणस्येन्द्रियभाव इति, तच्च भौतिकवाद व न तद्गुणयोगि न च नियतविषयं सर्वविषयत्वं त्वस्य सकलबाह्येन्द्रियाणामधिष्ठानत्वात्तदधिगम्यसुखादिविषयग्राहित्वाच्च, बा. ह्येन्द्रियाणि हि मनोऽधिष्ठितानि स्वविषये प्रवत्तितुमुत्सहन्ते चक्षुरादीनि नान्यथा, कस्मादेवमिति चेद्युगपज्ज्ञानानुपपत्तेः, उत्तरकालं च बाह्येन्द्रियव्यापारविरहेऽपि तदर्थावमर्षात् (४) ।
( १ ) सदिति । सता विद्यमानेन वस्तुना इन्द्रियाणां सम्प्रयोगे सम्बन्धे सति यद् बुद्धिजम्म तत्प्रत्यक्ष मित्यर्थः ।
( २ ) सा बुद्धिरेव भवमनुभवैः भवता पैश्चात्मानं युनक्ति अतो व्यसनजननीं बुद्धिं परमार्थविन्त्यजेदित्यर्थः ।
(३) सगुणानामिति । विशेषगुणवतामित्यर्थः । तेन सङ्ख्यादिगुणस्य मन. सिसवेऽपि न क्षतिः ।
( ४ ) सदर्थावमर्षात् - तदर्थस्मरणात् । न च सदानीं स्मरणं बाइयेन्द्रियजन्यं वितुमर्हति बाह्येन्द्रियाणां विरमात्, नाव्यकरणकमतः स्मरणान्यथानुपपस्या मनः कल्प्यते इति भावः ।