________________
४२
न्यायमञ्जर्याम्
तमेष तपस्वी तप्तकृच्छ्रमतिकष्टं कथं चरिष्यतीति महन् ! गतोऽसि कारुण्यम्, अन्नं च तावदश्नात्यन्ते च वर्चोऽस्तीति विड्भक्षणात्प्रायश्चित्तीयत एवायमित्यलं सत्कार्यवादप्रमादेन ।
यत्पुनरत्राभाणि -- कारणानुपमर्देन कार्यानुत्पादादभावाद्भावोत्पत्तिर्भवेत्तत्र श्वानन्तरवृत्त्युत्पत्तिनियमो न स्यात् - इति, तदप्ययुक्तम्, मूर्तानां समानदेशत्ववि - रोधात्कार्यकारणयोरेकदेशत्वं नेष्यते नैतावता भावोत्पत्तिरभावाद्भवितुमर्हति कारणपदेन तदुपादान दर्शनादत एवानन्तर्यनियमो ऽप्युपपन्नः, न च कार्यका रणयोरभेदात्सत्कार्यमिति वक्तव्यम्, तयोः प्रत्यक्षसिद्धभिन्नस्वरूपत्वात् ।
निरालम्बना कारकप्रवृत्तिरिति चोदितं परिहृतं तद्भाष्यकारेण (१) 'बुद्धिसिद्धं तु तदसत् (गौ० ३ | १५० | ११ ) इति वृद्धव्यवहारतः कार्यकारणभावमवगम्यामुष्मात्कारणादिदमीदृशं कार्यमुत्पद्यत इति बुद्धौ निर्धार्य कारकाणि कर्ता नियुङ्क्ते इति न निर्विषयः कारकव्यापारः, तदेवं सत्कार्यवादस्य निप्रमाणकत्वात्तन्मूलान्वयादिहेतुसिद्ध्यभावान्न प्रधानास्तित्वसिद्धिस्तदभावाच्च न तद्विकृतिर्नित्या बुद्धिरपि तु ज्ञानोपलब्धिरूपैवेति सम्यक्सूत्रितं 'बुद्धिरुपलब्धि- र्ज्ञानमित्यनर्थान्तरमिति, इतश्चानित्या बुद्धिः जानामि ज्ञास्याम्यज्ञासिषमित्यु - पजननापायधर्मतया पाकादिवत्कालत्रयेऽपि प्रकाशमानत्वाज् ज्ञातृव्यतिरिक्तायाश्च बुद्धेरप्रतिभासनात् श्रयं तु विशेषः- पाकादिक्रियाणामोदनादिफलावच्छेदद्वारकं कालवैतत्यमपि भवति, उपलब्धेस्तु वस्तुस्वरूपप्रकाशनमात्रपरिसमाप्तप्रयोजनायाः कालवैतत्यं नास्त्येवात एवानित्यत्वेऽप्युत्पन्नापवर्गिणीमेव बुद्धिमाच क्षते शब्दवन्न घटादिवत्कालान्तरस्थायिनीमिति, सा चेयं बुद्धिरात्मान्तःकरणशब्द दीपेन्द्रियार्थाधनेक कारककलापकार्यापि सती न बाह्ये न बाह्यकर्मणि समवैति, न बाह्यकरणे चक्षुरादौ नान्तः करणे मनसि किन्तु कर्तर्येव, कर्ताऽपि च नित्यो विभुरात्मा न भूतसङ्घातस्वभावः कार्यस्तस्था आश्रय इत्यात्मपरीक्षायां निर्णीतं गुणत्वमपि च तस्यास्तत्रैव दर्शितम् ।
नन्वेवं तर्हि न बुद्धेरनित्यत्वं विनाशकारणाभावाद्, द्विविधो हि गुणानां विनाशहेतुराश्रयविनाशो विरोधिगुणप्रादुर्भावो वा, नेहाश्रयविनाशो नित्यत्वादात्मनो, न च विरोधिनमस्याः कं चिद् गुणमुपलभामहे । न शब्दवदाशुविनाशित्वात् नित्याकाशगुणो ऽपि शब्दः शब्दान्तरमारभ्य यथा विनश्यति तथा बुद्धिबुद्धयन्तरमारभ्य विनश्यतीति तथा दर्शनात्कल्प्यते, यावांश्च कश्चन विनाशद
(१) बुद्धि सिद्धमिति । तत्कार्यम् असत् - प्रागभावप्रतियोगि, बुद्धिसिद्धम् - बुद्धया विषयीकृतम्, तथाहि इह तन्तुषु पटो भविष्यतीति ज्ञात्वा कुविन्दः प्रवर्तते तुपोऽस्तीति ज्ञात्वा तथासति सिद्धत्वेन ज्ञाते इच्छाभावात् प्रवृत्यनुपपत्ते. रित्यर्थः ।