________________
सत्कार्यवादनिराकरणम् । प्रागभावदशायां च हेतुव्यापारदर्शनम् । न तु प्रध्वंसवेलायामतः कमनुयुज्महे ॥ उपादानं तु सर्वस्य यन्न सर्वत्र दृश्यते । तन्न कार्यस्य सद्भावादपि त्वेवं निरीक्षणात् ।। अद्यत्वे व्यवहारो ऽपि नैवापूर्वः प्रवर्त्यते। यथोपलब्धं वृद्धेभ्यस्स तथैवानुगम्यते ॥ तैलार्थी सिकताः कश्चिदाददानो न दृश्यते । अदृष्ट्वा चाद्य नान्यो ऽपि तदर्थी तास धावति ॥ अन्वयव्यतिरेको च गृह्यते व्यवहारतः ।
अनादिश्चेष संसार इति कस्यानुयोज्यता॥ अथ वा शक्तिनियमादेवोपादाननियम उपपत्स्यते,
शक्तिस्त्वनित्या सूक्ष्मा च नेह का चिदुपेयते ।
तदभ्युपगमे नित्यं कार्योत्पादप्रसक्तितः ।। किन्तु योग्यतावच्छिन्नस्वरूपसहकारिसन्निधानमेव शक्तिः , सैवेयं द्विविधा शक्तिरुच्यते अवस्थिता ऽऽगन्तुका च , सत्त्वाद्यवच्छिन्नं स्वरूपम् अवस्थिता श. क्तिः , आगन्तुका तु दण्डचक्रादिसंयोगरूपा, शक्तिद्वयकृता च कार्यनिष्पत्तिरसकृद् दृष्टेति तदर्थिभिस्तु तदुपादानम् , योग्यता ऽपि नार्थान्तरं किञ्चित्किन्तु वस्तुविशेष एवेत्येवं सद्विनियमानुपादाननियमसिद्धेन सत्कार्यम् । न च शक्तिरेव कार्यमिति वक्तव्यम् , कार्यस्वरूपस्य ततः पृथगभूतस्य प्रतीत्या व्यवस्थापनात् , शक्तश्व कार्यत्वे कार्यादेव कार्योत्पादोऽङ्गीकृतः स्यात् , न च घटाद् घटउत्पत्तुमर्हति । शक्तेश्च कार्यमुत्पद्यते इत्यभ्युपगतमतो ऽन्यत्कार्यमन्या च शक्तिरनुवाद्यवाचकयोर्व्यङ्गयव्यञ्जकयोश्च दीपघटयोरुभयाश्रिता शक्तिदृष्टेति कार्यकारण्योरपि सा कथमनुभयाधिष्ठाना भवितुमर्हति , सति च द्वितीये कार्याख्ये तदाश्रये कथमियमुभयाश्रिता स्यादिति, नैतदेवं यथादर्शनं शक्तरभ्युपगमात्तच्चैकत्र दृष्टरूपमन्यत्रापि मृग्यते, वाच्यवाचकयोर्व्यङ्गयव्यजकयोश्च द्वयोः पृथक्त्वेन दर्शनादुभयाश्रिता शक्तिरङ्गीकृतेति हेतुद्वयस्यानुपलम्भात्केवलकारणवृत्तिरेव शक्तिस्तस्कृतश्चोपादाननियमविचारो युक्तः ।
उत्पत्तौ खलु सिद्धायामुपादानं विचार्यते ।
सतस्तु सैव नास्तीति किमुपादानचिन्तया ॥ सत्कार्यवादे च सुतरामुपादाननियमो दुर्घटः, सर्वस्य सर्वत्र भावासिकता. तिलसरस्तीरकेदारव्युप्तबीजजनिताकुरादिकार्यक्रमोत्पाद्यमानतिलस्वरूपपर्यालोचनया तिलेष्विव सिकतास्वपि तैलसम्भवात् , सर्वस्य सर्वत्र चास्तित्वे नियत. पदार्थप्रतिष्ठितहानोपादानादिव्यवहारः सकल एव विप्लवेत, अपि च प्रायश्चि