________________
न्यायमअर्याम् नोपलभ्यते इति ? अनुमानेनापि यदुपलब्धं तत्किमनुपलब्धं भवति, प्रत्यक्षेण तु तदानीमनुपलम्भोऽनभिव्यक्तत्वादभिव्यक्तिसम्पादन एव च कारकप्रयत्नसा. फल्यं, कार्य तु सदेवेति ।
. सत्कार्यवादखण्डनम् अत्राभिधीयते, केन रूपेण तदानीं कार्य सदिति मन्यते यदि कारकव्यापाराभिनिर्वत्येन सलिलाहरणाद्यर्थक्रियासमर्थेन पृथुबुध्नोदराकारतारूपेण चक्र. मूर्धनि घटोऽस्ति तदाऽभिव्यक्तेनापि रूपेण सत्त्वादत्यन्ताय कारकव्यापारवैफल्यभित्थमपि च कारकप्रवृत्तौ तद्यापारानुपरमप्रसङ्गः, किं हि तदोपलभ्य कारकाणि निवर्तेरन्कार्यस्य प्रागप्युलब्धत्वात् ।
अथ मृत्पिण्डरूपेण तदानी घटोऽस्तीति कथ्यते, तत्र न ह्यसौ तदानीं घटोऽस्ति मृत्पिण्ड एवासावदो न स्वरूपमुत्तरकालमपि निवर्तते घटस्तु ततो निवर्तते, यद्येवं यदैवासौ निवर्तते तदेवास्ति न ततः पूर्वमिति ।।
अथ पूर्व शक्त्यात्मना तस्यास्तित्वमिदानीमभिव्यक्त्यात्मना क्रियते इति, तदप्यनुपपन्नमभिव्यक्तिरपि तत्स्वरूपानिन्ना ऽभिन्ना वा सत्यसती वेति विकप्यमाना न पूर्वोक्तं दोषमतिवर्तते ।। ___ का चेयमभिव्यक्तिः ? किं कार्यात्मनाऽवस्थानमथ संस्थानविशेष उत प्रती. तिरिति, यदि कार्यात्मनाऽवस्थानं, तत्पूर्व नाभूत्तदधुना भूतमित्यसत्कार्यम्, पूर्वमपि वा यदि तदासीत्तदा पुनः कारकवैफल्यम् , संस्थानमध्यवयवसन्निवे. शविशेषः सन्नेव, ते अवयवास्तु सन्तीति कस्यात्र विवादः, न खलु परमा. णवोऽस्माभिनाङ्गीकताः, प्रतीतिस्तु घटस्य चक्षुरादिकारकसामग्रयधीनत्व. मृत्पिण्डदण्डचक्रादिकारकचक्रसाध्येति सा चक्रमूर्धनि घटस्य नास्त्येवेत्यसन् घटः।
दर्शनादर्शनाधीने सदसत्त्वे हि वस्तुनः । ___दृश्यस्यादर्शनात्तेन चक्रे कुम्भस्य नास्तिता॥
चक्रमूर्धवत्प्रध्वंसदशायामनुपलम्भाद् घटनास्तित्वमेवेत्यतश्च 'नासतो वि. द्यते भावो नाभावो विद्यते सत' इत्यप्रमाणकं पूर्वापरान्तयोर्भावस्वरूपादर्शनात् , शक्त्यात्मना ऽपि यदस्तित्वमस्योच्यते, तत्रापि चिन्त्यम-केयं शक्तिर्नामेति ? यदि घटस्वरूपाद्भिन्नासो, तर्हि पररूपेण घटोऽस्तीति स्वरूपणैव घटास्तित्वमुक्तं भ. वेत्तच्च प्रत्यक्षविरोधान्निरस्तम् , असत्करणपक्षे च यच्चोदितं 'शशविषाणाद्यपि क्रियेते'ति, तन्न, वचनव्यक्त्यपरिज्ञानात्, यदसत्तत्क्रियते इति नेयं वचनव्यक्तिरपि तु यत्क्रियते तदसदिति ।
स्वरूपसहकार्यादिहेतवो यद्विधायिनः । दृश्यन्ते जन्यते तद्धि न व्योमकुसुमादिकम् ।।