________________
बुद्धिपरीक्षायां सत्कार्यवादनिरूपणम् । ६३ अपि च बुद्धिर्नाम विषयोपलम्भः अहंकारोऽप्यहंप्रत्ययरूपोऽभिमानो बुद्धिविशेष एव तेन बाह्यानीन्द्रियाणि जन्यन्ते गन्धादयश्च गुणाः गुणैश्च पृथिव्यादीनि भूतानीति महाव्यामोहः, इदं च चित्रं-विषयजन्या हि सुखादयः प्रसिद्धास्ते च सुखादिजन्या विषयाः संवृत्ता इति, नवेयं विश्वामित्रस्येव सांख्यमुनेः सष्टिः, न च प्रधानास्तित्वमपि प्रमाणवदन्वयादिहेतूनामसाधनत्वात्, चेतनानां हि संभवेदपि सुखदुःखमोहान्वितत्वमचेतनानि भूतानि सुखदुःखमो. हवन्तीति सुभाषितम् , घटे पटे शकटे च सुख दुःखमोहाः सन्तीति कः प्रति. पद्यते, प्रकाशप्रवृत्तिनियमा अपि चेतनेष्वेव दृश्यन्ते नाचेतनेष्वित्यसिद्धत्वाद्धे. तोर्न प्रधानसिद्धिः। __ अपि च सत्कार्यवादमूल एष तपस्विनां विभ्रमः सर्व सर्वत्रास्तीति ततोऽन्वयसिद्धिं बुद्धयमानास्ते प्रधानसिद्धावध्यवसिताः, सत्कार्यवादश्च विचार्यमाणो न समस्त्येवेति कुतस्त्या हेतुसिद्धिः ।
सत्कार्यवादनिरूपणम् ननु सत्कार्यवादे कार्यकारणभावो भवति भावानां नान्यथा, तथा हि चतुष्टयी गतिरिह स्याद् घटादिकार्य मृत्पिण्डादिना कारणेन क्रियमाणमपि क्रियते सद्वाऽसद्वा सदसद्वाऽनुभयं वेति, तत्रासत: करणे खरविषाणादेः कर। णं स्यादसत्त्वे हि घटस्य खरविषाणस्य च को विशेषः, घटस्यापि च प्राक प्रध्वंसाभावदशयोरसत्वाविशेषात्प्रागभावदशायामिव प्रध्वंसावस्थायामपि क. रणं भवेत, असत्करणे नियतोपादानग्रहणं न प्राप्नोति, तैलार्थी हि तिलसर्षपानुपादत्ते न सिकताः असत्त्वे च तैलस्य को विशेष: सर्षपाणां सिकताभ्यः, असति कायें निरालम्बनः कारकव्यापारो भवेन्न ह्यसौ मृत्पिण्डादिविषयो भवि. तुमर्हति कार्य चासत्, अपि चाविद्यमाने कारणव्यतिरिक्ते च कायें जन्ये कारणस्य मृत्पिण्डादेर्घटादिकार्य जनितवतः किमिति न स्वरूपमुपलभ्यते ।
. अथ स्वविनाशेन कारणं कार्यस्य जनकमिष्यते तदियमभावाद्भावोत्पत्तिभवेत्तस्यां च कुतोऽयं नियमो यदनन्तरवृत्त एव मृत्पिण्डाभावः कुम्भमभिनिवर्तयति न चिरातिक्रान्त इत्यतश्च परुन्मृत्पिण्डे नष्ट एव स कुम्भोत्पादः स्याद् ।
अथ स्वाव्यतिरिक्तमेव कारणेन कार्य जन्यते ? तर्हि कारणस्य सत्त्वात्तदव्यतिरिक्तं वक्तं युक्तं सदसतोर्विप्रतिषेधेनैकत्र समावेशायोगात्, रूपभेदादवि. रोध इति चेन्न, कार्यस्य विचार्यमाणस्यैकत्वात्, ततश्च तेनैव स्वेन कार्येण रू. पेणासन्नासद्भवेदसच्च न सदिति, पररूपेण त्वसत्त्वं समस्तभावानामस्त्येव, अनुभयात्मकं तु नाम वस्तु नास्त्येवेति, तत्पारिशेष्यात्सदेव कार्यम्, किमिति च