________________
न्यायमअर्याम् येन द्रष्टा, संबन्धः द्रष्टुत्वं स्वभाव एवास्येति चेत्कि बुद्धिप्रतिबिम्बनेन, विशिटविषयावच्छेद इति चेत्ततः पूर्वमनालम्बनं द्रष्ट्रत्वमघटमानमिति न नैसर्गिक द्रष्टरूपं पुंसः स्यात्, दर्शनशक्ति: स्वाभाविकीति चेन्न, तस्य भेदाभेदाभ्यां निरूपयितुमशक्यत्वात्, पतिबिम्बपक्षे च परस्परानुरागम्य तुल्यत्वादवियोगाच कथमिदं निर्धार्यताममी पुंधमो इति, न हि तयोः पार्थगयेन कदाचित्स्वरूपावधारणं वृत्तम् , अनवधारितकार्यभेदत्वाच्च नानात्वमपि तयोर्दुवचम् , चे. तनाचेतनत्वाद्भोक्तभोग्यत्वाच्च विस्पष्टं तयोर्नानात्वमिति चेज , ज्ञानादियोगित्वं च बुद्धेरचेतनत्वं चेति चित्रम् ।
अपि च कल्पयित्वा भेदधर्म बुद्धिधर्माः पुंसि पुंधर्माश्च बुद्धावारोपणीया इति किं भेदेन, भेदे च बुद्धर्ज्ञानादियोगित्वे च चेतनत्वापत्तरेकत्र कार्यकार: णसंघाते चेतनद्वयमनिष्टं प्रसज्यते, नित्यमन्तःकरणमन्तरेण पुंस उपलब्धिर्न भवेदिति बुद्धः कल्पना चेत् , अस्त्येव नित्यमन्तःकरणं मन:, तेन करणेन कतरात्मनो विषयोपलब्धिक्रिया निर्वय॑ते सैव च बुद्धिरित्याख्यायतेन त्वन्या नि. त्या बुद्धिरस्तीति, किञ्च कस्य कृते परिदृश्यमानमात्मनो ज्ञानादिक्रियाकर्तृ. त्वमुत्सज्य बुद्धेरदृश्यमानमुपेयते, को ऽत्राशयः ।।
ननु पुरुषस्य स्वातन्त्र्यात्मककर्तृत्वे सति स्वकृतकर्मफलोपभोगानन्त्यादनिर्मोक्षः स्यात् , न हि कर्मणां परिक्षयो जन्मकोटिशतैरपि शक्यक्रियो, यदा तु कारमुदासीनं प्रकृतिबध्नाति तदा सैव ज्ञाता सती मोक्ष्यतीति न दूरं मोक्षवर्त्म भविष्यति । अहो बत निखिलमेव मौख्यं सांख्यहृदयेष्वेव प्रतिष्ठितमिति कथमन्यो जन इदानीं मूौं भविष्यति, अचेतने हि निरङ्कुशे प्रधाने बन्धरि सुतरामनिर्मोक्षः स्यात् , तत्त्वविदमपि पुमांसं न बध्नाति प्रकृतिरिति कोऽस्या नियन्ता पङ्ग्वन्धन्यायेन संयोगस्य तदापि तुल्यत्वात, निवृत्तकुतूहलः पुमानिति चेत्, प्रकृतिरनिर्मुक्तकौतुकाऽभिनववधूरिव स्थितैव । __ अपि च रे मूढ ! पूर्वमेव तपस्विना पुंसा किं कृतं यदसौ बद्धोऽभूत् , द्रष्ट. त्वं तु तस्य रूपं तदविनाभूतं कैवल्यदशायामपि तन्न नश्यत्येवेति तदाऽपि तद. धनाय कथं न प्रवर्तते निर्मर्यादा प्रकृतिः, दृष्टाऽस्मीति विरमतीति चेत्, मैवम् , न ह्यसावेकपत्नीव्रतदुर्ग्रहगृहीता, निःसंख्यपुरुषोपभोगसौभाग्या पण्यवनितेव नासौ नियमेन व्यवहर्तुमर्हतीत्यास्तामेतत् ।
यच्च 'सत्त्वरजस्तमोभिस्त्रिभिर्गुणैस्समावस्थतया प्रधानशब्दव्यपदेशभाग्भिः महन्नाम्नां बुद्धिरुत्पद्यते' इत्यादि प्रक्रियाजालमालपितं तन्महान्धपरम्परान्याय. प्रवृत्तगुरुपाठक्रमोपनतमेव न प्रमाणमूलम् , कार्याद्धि कारणमल्पपरिमाणमुपलभ्यते न विपर्ययः स्वावयवाश्रितस्य घटादेस्तथा दर्शनात्तदवयवानां तदपेक्षया ऽल्पत्वादन्यस्यास्यादो(?) महापरिमाणत्वमप्रयोजकम् ।