________________
बुद्धिपरीक्षायां सांख्यमतनिराकरणम् । ६१ अचेतनत्वादस्याः कथमेवंकारित्वमिति चेदुक्तमत्र
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ [ सां.का. ५७] ननूत्पन्नतत्त्वज्ञाने भोगानुकूलमहदादिकायोरम्भपराङ्मुखत्वात्तस्याश्चैकस्वादेकस्मिंस्तत्त्वविदि मुक्ते सति सर्वे मुक्ताः स्युः । नैष दोषः, तत्त्वविदमेव पुमांसं प्रति तस्या औदासीन्यात् , अन्यसाधारणत्वेन तत्कार्यानपायात् , तथा च पतञ्जलि:-[पा.२।२२] 'कृतार्थ प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्'(१) नन्वेवं यदैव तत्त्वज्ञानमुत्पन्नं तदैव प्रकृत्युपार्जितकर्मफलोपभोगपरिहानितः पुंसः शरीरपातः स्यान्नेत्याह-'तिष्ठति संस्कारवशाच्चक्रभ्रमिवद्धृतशरीरः, ततः संसारविरतौ सत्याम्--
प्राप्त शरीरभेदे चरितार्थत्वात्प्रधानविनिवृत्तौ ।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥ [ सां. का. ] इति । अहो नु खलु कपिलकविकथारसाक्षिप्तहृदयैरतिबहु प्रसक्तानुप्रसक्त्या लिखितमस्माभिस्तदियं प्रधानप्रकृतिः प्रथमा महच्छब्दवाच्या सा बुद्धिस्तत्त्व विदं प्रति नाऽप्यन्यसाधारणत्वादनष्ठैवेति नित्या, नित्यत्वाच्च प्रत्यभिज्ञानु. सन्धानादिव्यवहारप्रबन्धनिर्वाहणक्षमा बुद्धिः, ज्ञानं तु तस्य वृत्तिः, उपलब्धि. स्तु पुंसो वृत्तिमबुद्धिदर्शनमिति नैषां पर्यायशब्दत्वमिति ।
सांख्यमतनिराकरणम् अत्र प्रतिविधीयते-आत्मन्येव नित्ये व्यापिनि बोद्धरि ज्ञातर्यवसातरि धर्माधर्मादियोगिनि प्रत्यभिज्ञानादिकार्याणां कर्तरि सेयं बुद्धिरज्ञा सांख्यैः कल्पिता, चेतनत्वं ज्ञानादियोगिन्या अपि यत्त्वस्या नाभ्युपगतं सोऽयमतीव तपस्विनां भ्रमः, य एव बुध्यते जानात्यध्यवस्यति स एव पश्यति चेतयते च, न खल्वत्र वस्तुरूपभेदं पश्यामः, तत्र बुद्धिर्बुध्यते जानात्यध्यवस्यति पुरुषस्तु पश्यति चेतयते चेति वञ्चनायैवमुच्यते मुग्धतया वा। ___ यच्चेदमुच्यते-'बुद्धयाध्यवसितमथ पुरुष: पश्यती'ति, तद्याख्येयं किमिदं तस्य द्रष्ट्रत्वमिति ? प्रतिबिम्बनमिति चेत्कि स्वच्छे पुंसि वृत्तिमती बद्धिः सं. क्रामत्युत वृत्तिमत्यां बुद्धौ प्रमातेति । तत्र चितिशक्तिरपरिणामिन्यपरप्रतिसं. क्रमेति न बुद्धौ पुरुषस्य संक्रमणं, बुद्धौ तु पुंसि संक्रान्तायामपि पुंसः किं वृत्तं
(१) अत्र भाष्यम् 'कृतार्थमेकं पुरुष प्रति हण्यं नष्टमपि नाशं प्राप्तमपि अनष्टं तत् अन्यपुरुषसाधारणत्वात्' इति । 'कृतार्थमिति' बुद्धया कृतः समर्पितोऽर्थी यस्येति कृतार्थमेकं कचिन्मुक्तपुरुष प्रति गुणादिकं नष्टं प्रपोजनकरणात् राज्ञो राज्य. वनष्टमपि सामान्यतो न नष्टं तस्मिन्कृतार्थे अन्यपुरुषे च तस्य साधारणत्वादित्यर्थ, इति योगवार्तिकम् ।