________________
न्यायमअर्याम् तिः, महदहकारतन्मात्राणि सप्त पूर्वापेक्षया विकृतयः उत्तरोत्तरकार्यापेक्षया प्रकृतयः, एकादशेन्द्रियाणि पञ्च भूतानि विकृतय एव, अप्रकृतिविकृतिरूपस्तु शुद्धः पुरुष इति, तदाह
मूल प्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृितन विकृतिः पुरुषः । [सा० का०३] एवं महदादिविकारवती प्रकृतिरात्मनो भोगं साधयति, कश्चास्य भोगः ? बुद्धिवृत्त्यनुपातित्वं-विषयाकारपरिणतेन्द्रियवृत्त्यनुरक्तां बुद्धिवृत्तिं ज्ञानात्मिका पुरुषः पश्यति, दर्शनेऽपि न तस्य किंचिच्चान्यत्वं किन्तु तदेव दर्शनं यत्तत्र प्रतिबिम्बनमिति, इत्थं तयोर्बुद्धिपुंसोः संयोगे सति बुद्धिधर्मश्चेतयितृलक्षणों बुद्धावसन्नपि सन्निव लक्ष्यते, तदाह
तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥ [ सा० का० २०] अपवर्गाय कथमात्मनः प्रकृतिरवकल्पते ? स्वरूपं प्रकाशयतीत्याचक्षते, अनवधृतप्रकृतिस्वरूपः पुमान्प्रकृतिकृतमखिलमात्मकृतमिति मन्यमानस्तदुपाजितं भुङ्क्ते, यदा तु पृथग्भूतामेनां मन्यते तदा भवत्वियमायासहेतुरेव ममेति बुद्धयमानस्तत्कृतमनुपभुजानः स्वरूपनिष्ठ एवावतिष्ठते, प्रकृतिरपि भवतु दृष्टाऽहमनेन पृथङ् मामेष मन्यते इति न तदभिमुखीभवितुमुत्सहते,
प्रकृतेः सुकुमारतरं न किंचिदस्तीति मे मतिर्भवति ।
या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ [ सां० का० ६१] परस्परं च भग्नरसयोः प्रकृतिपुरुषयोापकत्वात्सत्यपि संयोगे सों न प्रवर्तत एवेत्याह
दृष्टा मयेत्युपेक्षक एको दृष्टाऽहमित्युपरमत्येका।
सति संयोगे ऽपि तयोः प्रयोजनं नास्ति सर्गस्य । [सा० का०६६] अपरिम्लानकुतूहलो हि पुमान्वञ्चयितुं शक्यते न दृष्टं तत्त्वमिति मत्वा, सत्यामपि योग्यतायां निवर्तते प्रकृतिनंटीव रङ्गभूमो प्रदर्शितनिखिलनिजनृत्त. वृत्तान्तनैपुणा तत इत्याह-रङ्गस्य दर्शयित्वा निवर्तते प्रकृतिः' तदेवं प्रकृतिरेव संसारे प्रवर्तते प्रकृतिरेव मोक्षमनुभवतीत्याह
तस्मान्न बध्यतेऽद्धा नापि मुच्यते नापि संसरति कश्चित् ।
संसरति बध्यते मुच्यते च नानाऽऽश्रया प्रकृतिः ।। सां० का० ६२] किमर्थं पुनरसावेव विशेष्यते प्रकृतिरिति ? किं क्रियते स्वभाव एवैष देव. हतिकायास्तस्याः
नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः । गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति ॥ [ सां० का० ६०]
तदाह