________________
बुद्धिपरीक्षायां सांख्यमतस्थापनम् ।
तदेकरूपात्कारणादुत्पद्यमानं दृश्यते, मृदन्वितानि हि घटशरावादभ्वनप्रभृतीनि कार्याण्ये कस्मान्मृदात्मनः कारणादुद्भवन्ति, तदिदं विश्वं सुखदुःखमाहान्वित - मिति तदात्मक कारणकार्य भवितुमर्हति, यत्सुखदुःखमोहात्मकं कारणं सा सरवरजस्तमोरूपा प्रकृतिः, एवमन्वयपुरःसराः परिमाणादिहेतवोऽपि वक्तव्याः, इयत्तया वा चतुरश्रतादिना वा परिमाणेन तद्वतां कार्याणामेकप्रकृतित्वदर्शनात, विषयवृत्तयश्चैते गुणाः कार्येषु दृश्यन्ते च - कचित्सत्वमधिकमूने रजस्तमसी कचिद्रजः प्रकृष्टमल्पे सरखतमसी कचित्तमः प्रवृद्धं तुच्छे सत्त्वरजसी इति, तदेषां वैषम्यभेदोपदर्शितविश्वरूपकार्याणां क्वचित्साम्यावस्थया भाव्यं सा प्रकृतिरुच्यते, सेयमचेतना भोग्या प्रकृतिः तस्यास्तु भोक्ता चेतन: पुरुषः । पुरुष इदानीं किमनुमानक: ? उक्तमेव-भोग्येन भोक्तुरनुमानं, न ह्यचेत नस्य भोग्यस्य भोक्तारमन्तरेण भोग्य तोपपद्यते दृष्टा च सेति भोक्ता कल्प्यते, स च चितिशक्तिस्वभावक एव सर्वप्रकार कर्तृत्वादिव्यवहारनिवह बहिष्कृतस्वद्रष्टृत्वमेव पुरुषस्य स्वरूपमाहुः, न यथा भवन्तः एकमात्मानमध्यवसा यादिधर्मयागिनं मन्यन्ते तथाऽसौ भवितुमर्हत्यध्यवसायादेर्बुद्धिधर्मत्वात् । कर्त्तुं शक्नेति पुरुषस्तृणस्यापि न कुब्जताम् । अन्योपनीतमथ तु स पश्यत्येव केवलम् ॥
रूप,
८९
प्रकृतिरेवैनं भोगापवर्गाभ्यां संयुनक्ति, न च निर्विकारा सती भोगसम्पाद समर्थाऽसौ भवतीति महदादिविकृतीः प्रतिपद्यते, पवन्धन्यायेन प्रकृतिपुरुप संयुज्येते - प्रकृति र चेतना दृश्या भोग्या द्रष्टारं भोक्तारं पुरुषमपेक्षते, पुरुषोऽपि द्रष्टा भोक्ता दृश्यं भोग्यमपेक्षते इत्येवं तयोः पड्वन्धवत्संयोगो भवति दर्शनशक्त्या पङ्गार्गमनशक्त्या चान्धस्यैकत्र मेलनात्कार्यसिद्धिरेवं प्रकृतिपुरुषसंयोगात्सर्गः प्रवर्तते, तदुक्तम्
पुरुषस्य दर्शनार्थः कैवल्यार्थस्तथा प्रधानस्य ।
पङग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ [ सां० का० २१ ] यच्चेत्थं प्रधानान्महत्तत्त्वमुत्पद्यते सा बुद्धिरध्यवसायात्मिका धर्मज्ञानवैराग्यैश्वर्यतद्विपर्ययरूपवृत्तियोगिनी महतत्वमेवोच्यते, बुद्धेरहङ्कार उदेति स चाभिमानस्वभावः, अहङ्कारात् प्राणादीनि पञ्च बुद्धीन्द्रियाणि वागादीनि पच कर्मेन्द्रियाणि सङ्कल्पकमेकादशं मनः गन्धादितन्मात्राणि च पन्चेति षोडशको गणः प्रभवति, ततो गन्धादितन्मात्र पञ्चकात्पञ्च पृथिव्यादीनि महाभूतानि जायन्त इति, आह च
प्रकृतेर्महांस्ततोऽङ्कारस्तस्माद्द्रणश्च षोडशकः ।
तस्मादपि षोडशकात्पञ्चम्यः पञ्च भूतानि ॥ [ सा० का० २२ ] तानीमानि पश्च पञ्चविंशतित्तच्वानि सञ्चक्षते, प्रधानं प्रकृतिरेव न विकृ