________________
न्यायमअर्याम्
तेऽमी हेयाः कृतकमधुरं रूपमादर्शयन्त. स्तिक्ताहाराः परिणतिविपत्कारिण हीन्द्रियार्थाः । त्यक्ताश्चैते व्यपगतमहामोहपङ्केन पुंसा तीर्णश्चायं भवजलनिधिः क्लेशकल्लोलरौद्रः ।।
बुद्धिलक्षणम् । बुद्धिरुपलब्धिनिमित्यनाथन्तरम् । १।१।१५॥ ननु पर्यायोचारणमेतन्न बुद्धलक्षणमभिधीयते।न, पर्यायप्रयोगस्यैव लक्षणक्ष. मत्वात् ,लक्षणं हि तदुच्यते येन समानेतरजातीयेभ्यो लक्ष्यं व्यवच्छियते, व्यव. च्छिद्यते च बुद्धिर्बुद्ध्यादिपर्यायवाच्यतयैव तेभ्य इति नामिधानमालामात्रमिदम् ।
ननु सामयिकत्वाच्छब्दार्थप्रत्ययस्य समयस्य च पुरुषेच्छानिर्वत्यत्वात्कथमिदं व्यवस्थितं लक्षणं स्यात् । मैवम् सर्वजनीनस्य समयस्य विप्लावयितुम. शक्यत्वात्तद्वदिष्टस्य तद्वाच्यस्य लक्षणत्वात् ।'
प्रकारान्तरेण लक्षणमस्याः किमिति नोक्तमिति चेत् । शिशिपाचोध(१)मिदं तस्मिन्नप्युक्तेऽनुयुजीत भवानित्थं किमिति नोक्तमिति, अस्ति च प्रयोजनं पर्यायद्वारकलक्षणोपवर्णनस्य यत्सालयानां व्यामोहनिरसनम् ,एवं हि सांख्याः सङ्गिरन्ते-'बुद्धिरन्या ज्ञानमन्यदुपलब्धिरन्ये ति तद्ममापनयनायैवमुच्यते-- 'बुद्धिरुपलब्धिनिमित्यनर्थान्तरम्' एक एवार्थ इत्यर्थः, इत्थं च स्वरूपतो निर्माता बुद्धिर्भोगस्वभावात्तत्साधनत्वाञ्च संसारहेतुरिति हेयत्वेन भाव्यते ।
सांख्यमतोपपादानम् । सुखादिबुद्धिर्भोगः तत्साधनबुद्धिस्तु भोगसाधनमिति कथं पारमर्षाः प्रवदन्ति 'बुद्धिरन्योपलब्धिरन्येति, नित्यां हि बुद्धिं ते मन्वते, तत्किमात्मैवैते: बु. द्धिरिति गृहीतः ? नाचेतनाया भोग्यायाः प्रकृतेः प्रथमा विकृतिमहच्छब्दवाच्या बुद्धिः पुरुषस्तु चेतनो भोक्ताऽन्य एव, ताविमौ प्रकृतिपुरुषो विवेकेनापश्यतां संसारः प्रकृतिपुरुषविवेकज्ञानान्मोक्षः । का पुनः प्रकृति म ? सत्त्वरजस्तमसां त्रयाणां गुणानां साम्यावस्था प्रकृतिः, प्रधानमव्यक्तं च तदुच्यते यत्साम्याव. स्थागतं गुणत्रयमिति ।
ननु तत्सत्त्व किं प्रमाणम् ? अनुमानमित्याह, तथा हि-चराचरमिदं विश्व सुखदुःखमोहाविनाभूतमुपलभ्यते न हि ब्रह्मादौ स्तम्बपर्यन्ते जगति तथाभूतं किमपि भूतमुपलभ्यते यत्सुखदुःखमोहैरविकृतम् , तत्र सुखस्वभावं सत्त्वं दुःखस्वभावं रजः मोहस्वभावं तमः, सर्वत्र प्रीत्यप्रीतिविषादादिदर्शनात्यका. शप्रवृत्तिनियमापगमाञ्च सर्व त्रिगुणात्मकम् , जगत्कार्यं च यत्परस्परान्वितरूपं
(१) कुत्सिताशङ्केत्यर्थः ।